________________
नल-ऋषिभाषितानि भवति। किञ्च -
गंभीरमेरुसारे वि' पुमं होऊण संजमे। कोवुग्गमरयोधूतेऽतसारत्तमतिच्छति।।३६-१०।।
गम्भीरः - अतुच्छः, यतो मेरुवत् सारः - निचितसजातीयत्वेन विजातीयांशेनाप्यकलङ्कितः, गम्भीरश्चासौ मेरुसारश्च - गम्भीरमेरुसारः, तस्मिन्नपि - आस्तां तुच्छादावित्यपिशब्दार्थः, संयमे - आश्रवविरत्यादिरूपे, पुमान् - नरः, भूत्वा - व्यवस्थितिं सम्बध्य, कोपोद्गम एव रजः - आत्मस्वरूपोपरञ्जनात्, तेन धूतः - उच्छलितः, अवगुण्डित आवृत इति यावत्, सोऽत्यसारत्वम् - सर्वथा संयमसाररहितत्वम्, अतिच्छति - उपयाति, प्रतिपद्यत इत्यर्थः। यदागमः - जं अज्जियं चरित्तं देसूणाए वि पुवकोडीए। तं पि कसाइयमेत्तो नासेइ नरो मुहुत्तेण - इति (निशीथभाष्ये २७९३)। कषायातिशयस्य संयमप्रतिपक्षत्वात्, उक्तं च - कषायसहिओ न संजओ होइ - इति (बृहत्कल्पभाष्ये २७१२)।
निस्सारीभवनमेवोपमया स्पष्टयति -
१५६
आर्षोपनिषद् - महाविसे वऽही दित्ते 'चरेऽदत्तंकुरोदये। चिट्टे चिट्टे स रूसंते णिव्विसत्तमुपागते।।
॥३६-११॥ दृप्तः - उदितानल्पदर्पः, महाविषोऽप्यहिः - सर्पः, न दत्तोऽङ्कुरस्याप्युदयो येन सः - अदत्ताङ्कुरोदयः, तथा सन् चरेत् - विहरेत्, चण्डकौशिकवदशेषवनस्पत्यादीन् भस्मसात् कुर्वन् भ्रमेदित्याशयः।
किं सर्वदाऽप्यसौ महाविषः ? नेत्याह- स रुषन् - दृष्टिविषयमात्रमापन्नेऽतीव क्रुध्यन्, तथाविधावस्थायामेव तिष्ठेत् तिष्ठेत् - भृशमवस्थितिं बनीयात्, एवं च सन्ततमप्युद्गीर्णहलाहलोऽसौ निर्विषत्वमुपागतो भवति। स्वशरीरे विषजननसामर्थ्यादप्यधिकमात्रतद्व्ययभावादित्यभिप्रायः। उपनयति -
एवं तवोबलत्थे वि णिच्चं कोहपरायणे। अचिरेण वि कालेणं तवोरित्तत्तमिच्छति।।३६-१२।।
एवं तप एव बलम्, तपोबलम्, निकाचितकर्मणामपि निर्माशनेऽचिन्त्यसामर्थ्यशालित्वात्, तस्मिंस्तिष्ठति - तादात्म्येन परिणमतीति - तपोबलस्थः, सोऽपि यदि नित्यं क्रोधपरायणो भवति, तदाऽचिरेणापि कालेन तपोरिक्ततामृच्छति - अभिगच्छति। यतः - १. ख.ज.ठ - चरे दप्भं । ट - चरे दप्तं । थ - चरे दप्पं । ध. चरे दित्तं । २. ज.ठ.थ - चिट्ठ विद्धे । ढ - चिट्ठ विट्ठ । ण विद्वे विढे । फ - विट्ठ विट्ठ । ३. क.घ.च.छ.झढ़.ण.त . णिब्बिसत्त। ख.थ - णिब्बे सत्त । ज.ट.ध.न.प.फ - णिब्वसत्त। ठ - णिच्चसत्त ।
१. क.फ.न - वि युमंहोऊण। ख.ज.ट.ठ.थ.ध.प - विपुमं । ग.घ.च.छ.झ.त - वि पुव्वं । ण - वियुम । २. क.ख.ज.ट.ठ.ढ.ण.थ.धन.च.फ - तसारत्तं । गत (अ)सारत्त। घ.च.छ.झ.त . असारत्त ।