________________
न-ऋषिभाषितानि - गंभीरो वि तवोरासी जीवाणं दुक्खसंचितो। दुक्खो वणं दवग्गी वा कोवग्गी दहते खणा।।
॥३६-१३॥ जीवानां दुःखेन - अनशनादिकष्टसहनेन सञ्चितः - यावत्पूर्वकोटिप्राय:कालेन सन्ततमासेविततयोपचितः - दुःखसञ्चितः, अत एव गम्भीरः - अतुच्छः, एतादृगपि तपोराशिर्यो भवति, तं कोपाग्निस्तथा क्षणाद्दहति - तज्जनितामात्मशुद्धिं तथाऽपाकुरुते, यथा दुःखः - मूर्तिमान् दुःखमेव, तद्धेतुभावात्, दवाग्निः - दवानलः, क्षणादेव वनं दहति। किञ्च -
कोहेण अपं डहती परं च ___ अत्थं च धम्मं च तहेव कामं। तिव्वं च वरं पि करेंति कोधा
अधरं गतिं वा वि उविंति कोहा ।।३६-१४।। जीवः क्रोधेनात्मानं परं च दहति - तज्जनितपरितापपात्रीकुरुते। अर्थं च धर्मं च तथैव काममपि दहति, तत्रार्थदाहोऽनर्थयोगात्, अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा - इत्युक्तेः (महाभारते ३८-३५), धर्महानिः, क्रोधाभिभूतस्य तत्त्यागयोगात्, वक्ष्यते च - जेणाभिभूतो जहती तु धम्मं - इति (ऋषिभाषिते-३६-१७), कामक्षतिश्च - कामव्याघातहेतु१. क.ख.ग.घ.ज.झ.ठ.त.थ - संचितो। च - संचिओ। ट . संचित्तो । ढ.ण.ध.न.प.फ - संवितो।
१५८
- आर्षोपनिषद् - कश्चित्तवृत्तिविशेषः क्रोध इति तल्लक्षणेन स्पष्टा।
किञ्च क्रोधाज्जीवास्तीव्रमपि वैरं कुर्वन्ति, वैरानुषङ्गजनकः क्रोधः - इत्युक्तेः (प्रशमरतौ २६), अग्निशर्मवत्। यद्वाऽपि क्रोधादधराम् - नीचाम्, गतिम् - सर्पादियोनिम्, उपयन्ति - तत्प्रत्ययिककर्मविपाकाधीनतया गच्छन्ति। अत्र वा - शब्दः कोपविपाकसमुच्चये द्रष्टव्यः, यद्वाऽनालोचिताप्रतिक्रान्तस्यैव कृतक्रोधस्याधोगतिरिति पाक्षिकोऽयं विपाक इत्येतत्प्रदर्शनार्थं वा - पदमित्यवगन्तव्यम्।
क्रोधतोऽर्थादिहानिरित्युक्तम्, तत्रैव प्रधानहेतुमभिधत्ते - कोहाविद्धा ण याणंति मातरं पितरं गुरूं। अधिक्खवंति साधू य रायाणो देवयाणि य।।
॥३६-१५।। क्रोधरूपशूलेन विद्धाः, क्रोधविद्धाः, समुदितक्रोधातिशया इत्यर्थः, ते मातरं पितरं गुरुंश्च - कलाचार्यादीन्, न जानन्ति, न बहुमन्यन्ते, यद्वैते मम पूजनीयाः, सर्वथाऽप्यनधिक्षेप्या इति विस्मरन्ति। उक्तं च - क्रुद्धः पापं न कुर्यात् कः, क्रुद्धो हन्याद् गुरूनपि - इति (वाल्मिकीरामायण - सुन्दरकाण्डे ५५-४)। ___ तथा साधून्, राज्ञश्च दैवतानि चाधिक्षिपन्ति - आक्रोशगोचरीकुर्वन्ति। तदाह - क्रुद्धो हि सम्मूढः सन् गुरुमाक्रोशति - इति (भगवद्गीता - शाङ्करभाष्ये २- ६३)।
अन्यत्रापि - नाकार्यमस्ति क्रूद्धस्य नावाच्यं विद्यते क्वचित् - इति (वाल्मिकीरामायणे ५-५५-५)। एवं च नीत्यतिक्रमादनर्थ