Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि -
१५९ परम्परानिमन्त्रणमेव, नीतिश्चैवं व्यवस्थिता - अतिक्रुद्धोऽपि न मान्यमतिक्रामेदवमन्येत वा - इति (नीतिवाक्यामृते २५-८०)। किञ्च मात्राद्यवज्ञातो लभ्या अवज्ञा भवति, यदुक्तम् - मातापितृभ्यां मनसाप्यवमन्यमानेष्वभिमुखा अपि श्रियो विमुखीभवन्ति - इति (नीतिवाक्यामृते २४-७७)। इत्थं च
कोवमूलं णियच्छंति धणहाणिं बंधणाणि य। पियविष्पओगे य बहू जम्माई मरणाणि य।।
॥३६-१६॥ क्रोध एव मूलम् - निबन्धनं यथा स्यात्तथा क्रोधमूलम्, धनहानि बन्धनानि च नियच्छन्ति - क्रोधवशगाः प्राप्नुवन्ति, क्रोधो ह्यविवेकजनकः, स च परमापदां पदमिति। अपराण्याप्यनर्थानि प्राप्नुवन्तीत्याह- बहून् प्रियविप्रयोगांश्च क्रोधात् प्रीतिप्रनाशभावात्, यदार्षम् - कोहो पीई पणासेइ - इति (दशवैकालिके ८-३८)। ततश्च ज्ञात्यादिवियोगः, तदुक्तम् - आति - मित्ता सुहज्जा च परिवज्जन्ति कोधनं - इति (अङ्गुत्तरनिकाये ७-६-१२)।
किञ्चान्यत्, जन्मानि मरणानि च, नियच्छन्तीति वर्तते, जन्ममरणात्मकसंसृतेः कषायमूलकत्वात्, तथा चोक्तम् - संसारस्स उ मूलं कम्मं तस्स वि हुँति य कसाया - इति (आचाराङ्गनियुक्ती १८९)। अन्यत्रापि धिक् क्रोध स्वपरापकारकरणं संसारसंवर्धनम् - इति (हरिवंशपुराणे ६१-१०८)। तदत्र निष्कर्षमाह -
१६०
- आर्षोपनिषद् - जेणाभिभूतो जहती तु धम्म
विद्धंसती जेण कतं च पुण्णं। स तिव्वजोती परमप्पमादो
कोधो महाराज ! ण मुच्चियव्वो ॥३६-१७।। हे महाराज ! एतच्च सम्बोधनं प्रत्येकबुद्धमहर्षिणा पर्षदि प्रधानश्रोतृभूतं कञ्चिद् राजानमुद्दिश्याभिहितमिति सम्भाव्यते, भगवतो 'गोयमा' - इतिसम्बोधनवत्। यदभिहितं तदाहयेनाभिभूतस्तु धर्म जहाति-लोक-लोकोत्तरमर्यादाया उल्लङ्घनं विधत्ते, येन च प्राक्काले कृतं पुण्यं विध्वंसयति, स तीव्रज्योतिः - ज्वालासहस्रसङ्कुलजाज्वल्यमानज्वलनादप्यतिशायितयात्युग्रदीप्तिः, परमप्रमादः, कथञ्चिदशेषप्रमादाधिकत्वात्, क्रोधः - कोपः, न - नैव, अविनाश्य मोक्तव्यः, उपेक्षितव्यः, यत् पारमर्षम् - अणथोवं वणथोवं अग्गीथोवं कसायथोवं च। ण हु भे वीससियव्वं थेवंपि हु तं बहु होइ - इति (आवश्यकनियुक्तौ १२०)।
क्रोधनिग्रहानिग्रहफलोपदर्शनेनोपसंहरति - हट्टं करेतीह णिरुज्झमाणो
भासं करेतीह विमुच्चमाणो। हट्टं च भासं च समिक्ख पण्णे
कोवं णिरुंभेज्ज सदा जितप्पा।।३६-१८।। १. क.द - णमुच्चियब्यो। ख.ज.ठ.ढण.ध.ध.न.प.फ - णमुब्बियव्यो। ग.घ. च.छ.झ.त - णिरुज्झियव्यो । ट - णमुब्बियमो । २. क.ग.द.ज.ठ.ढण.थ.ध.न.प.फ - करेंती। ख - करति । घ.च.झ.ट.त - करेति ।

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132