Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 83
________________ Re-ऋषिभाषितानि - ॥ अथ षट्त्रिंशत्तमोऽधयायः ।। अनन्तराध्ययने कषायनिग्रहः प्रतिपादितः, तेषु चाग्रेसरः कोपः, इत्यत्र तदुर्विपाकादिनिरूपणेन तद्विजयायोत्साहयति'उप्पतता उप्पतता उप्पयंतं पितेण वोच्छामि। किं संतं वोच्छामि, ण संतं वोच्छामि कुक्कुसयावित्तेण तारायणेण अरहता इसिणा बुइतं।।३६-१।। उत्पततोत्पतता - भृशमुदीर्यमाणेन, क्रोधेनेति गम्यते, उत्पतन्तम् - अत्यन्तमाध्मातम्, क्रोधनमनुष्यमिति गम्यते, प्रियेण - मनोज्ञेन, वचसेति ज्ञायते, वक्ष्यामि- कथयिष्यामि, क्रोधामातं प्रियवचनेन निर्वापयिष्यामीति हृदयम्।। किं श्रान्तम् - प्रियेणापि क्षमाधुपदेशेन निर्विण्णमहं वक्ष्यामि ? अयं भावः, खेदापन्नं चित्तं प्रियेऽप्यरतिज्वरात भवतीत्यसौ प्रियभाषणस्याप्यकाल एवेति प्रश्नकारोऽन्येषामप्यौचित्यव्युत्पादनाय क्षमावचोऽवसरं प्रख्यापयति, न श्रान्तं वक्ष्यामीति, तदोदीरितवचसो वैफल्यात्, प्रत्यपायावहत्वाच्च। केनैवमुक्तमित्याह- कुक्कुस इति देश्यशब्दः पलालवाची, स्वार्थे कप्रत्ययः, दीर्घभावः प्राकृतत्वात्, रामापुत्त इति यथा। ततः कुक्कुसकः - पलालकल्पं निस्सारं चीवरादि, स एव वित्तम् - धर्मोपकरणत्वेन परिगृहीतम्, त्यक्ताशेषविभवनेनाऽपि स्वस्वामिकतयाङ्गीकृतमिति यावत्, यस्य सः - कुक्कुसकवित्तः, तेन। एतेनास्याचेलकल्पाराधकत्वमुक्तम्, उपलक्षणं चैतत् स्वप्रायोग्य १५० आर्षोपनिषद् - शेषकल्पानाम्। विशेषणमभिधाय विशिष्टमाह - तारायणेनार्हतर्षिणोदितमिति। योग्यावसरे तु यद्वक्ति तदाह पत्तस्स मम य अन्नेसिं मुक्को 'को(वो) दुहावहो। तम्हा खलु उप्पतंतं सहसा कोवं णिगिण्हितव्वं ।। ॥३६-२॥ पात्रस्य - क्रोधाध्मातप्रकोपभाजनीभूतस्य, परुषवचनविषयीभूतस्येत्यर्थः, मम - प्रवक्तुः प्रत्येकबुद्धस्य, अन्येषां च - मद्विधानां परुषभाषितनिशितशरशरव्यीकृतानाम्, मुक्तः- उत्सृष्टः, अस्माकं प्रति व्यक्तीकृत इत्यर्थः, क्रोधः - प्रबलक्रोधोदयेनोदीरितमतिकटुकं वचनम्, फले हेतूपचारात्, दुःखावहः- दुःखनिबन्धनं भवति। यतः - रोहते सायकैर्विद्धं वनं परशुना हतम्। वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् - इति (महाभारते)। तस्मात् खलु उत्पतन् - उदयाभिमुखीभवन्, सहसा - सपदि, अविश्वसनीयत्वात् कषायाणाम्, उक्तं च - अल्पेऽपि साधुन कषायवना - वह्नाय विश्वासमुपैति भीतः। प्रवर्धमानः स दहेद् गुणौघं साम्याम्बुपूरैर्यदि नापनीतः - इति (अध्यात्मोपनिषदि ४११)। कोपः - मन्युः, निगृहीतव्यः - प्रवचनप्रतिपादितोपायेन निग्रहगोचरीकर्तव्यः। क्रोधस्य दुःखावहत्वमेवोपमाभिः स्फुटयति कोवो अग्गी तमो मच्चू विसं वाधी अरी रयो। जरा हाणी भयं सोगो मोहं सल्लं पराजयो।।३६-३।। १. क.ज.ट.ठ.ढण.ध.न.फ - कोदुहा। ख - केदुहा । ग को (वो) दुहा । ध.प - क्कोदुहा। घ.च.छ.झ.त - कोवोदुहा । १. ग.द - ततो उप्पतता। ट . तता उप्पतता।

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132