________________
Re-ऋषिभाषितानि परगुणकीर्तनस्यापि प्रतिषेधात्, यदाह - यावत्परगुणदोषपरिकीर्तने व्यापृतं मनो भवति। तावद्वरं विशुद्ध, ध्याने व्यग्रं मनः कर्तुम् - इति (प्रशमरतौ १८४)। किञ्च, ज्ञानानन्दसमाधिसमुद्रनिमग्नस्य क्व परचिन्तावकाशोऽपीति विचारणीयम्, उक्तं च - लभ्रूण विहि एक्को तस्स फलं अणुहवेइ सुजणत्ते। तह णाणी णाणविहिं, भुंजेइ चइत्तु परतत्तिं - इति (नियमसारे १५७)।
ननु मा भूत् परदोषदर्शनम्, परपापाचरणनिषेधस्तु कथं न करणीय इति चेत् ? अत्राह
जड़ परो पडिसेवेज्ज पावियं पडिसेवणं। तुज्झ मोणं करेंतस्स के अटे परिहायति ?।।
॥३५-१६॥ यदि परः पापिकम् - पापसम्बन्धि प्रतिसेवनं प्रतिसेवेत, तदा तव मौनम् - मुनिभावव्यवस्थितिम्, वचननिरोधं वा, कुर्वतः, कोऽर्थः - प्रयोजनं परिहीयते ? न कश्चिदित्याशयः, परकीयपापानामात्मार्थे हानिप्रयोजकत्वाभावात्। नन्वेवं पापप्रतिषेधोपदेशोऽकर्तव्यतामापद्यत इति चेत् ? आपद्यतां नाम दशाविशेषापेक्षया, अपरथा तु सोऽपि कर्तव्यतयैवाभ्युपगम्यत इत्यानेडितमेव। तदत्र निष्कर्षमाह -
आतट्ठो णिज्जरायंतो परट्ठो कम्मबंधणं। अत्ता समाहिकरणं अप्पणो य परस्स य।।
॥३५-१७।। आत्मार्थः, निर्जरायन् - निर्जराप्रयोजकः, परार्थः -
१४४
आर्षोपनिषद् - अनधिकारिण आत्मार्थद्रोहकलङ्कितः परोपकारः, कर्मबन्धनम्, तद्धेतुभावात्। ___ अधिकारिणमुद्दिश्याऽऽह - आत्मनश्च परस्य च समाधिकरणम् - दोषापनोदो गुणप्रगुणताविधानं च, आत्मा, पदैकदेशे पदसमुदायोपचारेणात्मार्थ इत्यर्थः। अयमाशयः, अधिकारिणस्तु स्वपरयोरुभयोरप्युपकरणमात्मार्थ एव, परोपकारस्यापि निर्जरानिबन्धनत्वादिति। अनधिकारिणस्तु परार्थाभियोग उभयभ्रंशः, आत्मार्थवञ्चितत्वात्, अत एव पारमार्थिकपरायोगाच्चेति तं प्रत्युपदेष्टि -
अण्णातयंम्मि अट्टालकम्मि किं जग्गिएण वीरस्स ?। णियगम्मि जग्गियव्वं इमो हु बहुचोरतो गामो।।
॥३५-१८।। अज्ञातके - अपरिचिते, एतच्च परकीयत्वातिशयप्रदर्शनार्थं विशेषणम्, अट्टालके-क्षौमे, प्राकाराग्रस्थे रणगृह इत्यर्थः, वीरस्य - सुभटमन्यस्य, जागरितेन - रक्षाबद्धकक्षतया निर्निमेषं निशानयनेन, किम् ? कोऽर्थोऽनेन सेत्स्यति ? निरर्थकमेतदित्यभिप्रायः। निजग्रामे मुष्यमाणे सति परत्र जागरितस्य विफलत्वात्, कुफलत्वाच्चेति पर्यवसितमाह - निजके - आत्मीये, अट्टालके जागृतव्यम्, तुः - यतोऽयं बहवश्चौरा यस्मिन् सः - बहुचौरकः, ग्रामः - आत्मीय आवसथः।
आत्मनि तु चौरस्थानीया बहवो दोषाः स्वप्रत्यक्षा एवेति तेभ्य आत्मा रक्षणीयः, आत्मन्येव संशयारूढे पररक्षाऽसम्भवात्। अत्र