________________
Re-ऋषिभाषितानि -
-१४१ आत्मार्थे - दोषविशोधनादिलक्षण आत्मीयप्रयोजने, जागरः - प्रतिबुद्धः सावधान इति यावत्, भव, एतदेव व्यतिरेकेण नियमयति परार्थमेव साधनीयतयाऽऽभिमुख्येन धारयति - मन्यत इति परार्थाभिधारकः, तादृशो मा भूः।
अत्रैव हेतुमाह - यतो यः परार्थाभिधारको भवति, तस्यात्मार्थो हीयते, स निजप्रयोजनाद् भ्रश्यतीत्यर्थः।
नन्वेवमागमविरोधः, परत्थकरणमिति प्रार्थनासूत्रे प्रार्थनीयत्वेनाभिधानात्, न चान्यतरसम्भवगोचरं प्रस्तुताभिधानमिति वाच्यम्, तथात्वेऽपि विरोधध्रौव्यात्, यदुक्तमन्यत्र - उपकारो विनाशेन सहितोऽपि प्रशस्यते। विक्रीयापि निजात्मानं भव्योत्तम ! विधेहि तम् - इति (कुरलकाव्ये)। युक्तं चैतत्, निजप्रयोजनं गौणीकृत्य परार्थं प्राधान्येन पश्यत एव परमार्थतः परार्थकारित्वात्, अत एव परार्थमेव स्वार्थत्वेन मन्यमानः सज्जनतल्लजः, यदभिहितम् - क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोद्यताः, स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः। दुष्पूरोदरपूरणाय पिबति, स्रोतःपतिं वाडवो, जीमूतस्तु निदाघसम्भृतजगत्सन्तापविच्छित्तये - इति (भर्तृहरिकृतशतके)। स्वार्थाय परार्थप्रतिघातस्तु प्रत्यक्षमेव राक्षसलक्षणम्, यदाह - एते सत्पुरुषाः परार्थघटकाः स्वार्थ परित्यज्य ये, सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये। तेऽमी मानवराक्षसाः परहितं स्वार्थाय निम्नन्ति ये, ये तु मन्ति निरर्थक परहितं ते के न जानीमहे- इति (भर्तृहरिकृतशतके)। न च परार्थप्रतिघातस्याप्रतिज्ञातत्वेनानभ्युपगतोपालम्भोऽयमिति वाच्यम्,
१४२
- आर्षोपनिषद् - परार्थोपेक्षाया एव कथञ्चित्तत्त्वात् (परार्थप्रतिघातरूपत्वात्)। न चैवं परार्थोपेक्षयितुर्मुमुक्षुताऽपि सङ्गतिमङ्गति- निर्व्यपेक्षं परार्थेषु बद्धकक्षा मुमुक्षुवः - इति तल्ल्क्षणायोगात् (अनगार- धर्मामृते १११-३५ उद्धरणम्)। अत एव परार्थरसिकाः शास्त्रेषु स्तूयन्ते, यथा
अत्तुवगारमई वि हु जायइ जम्हा जयंमि विरलाणं ते उण विरलयर च्चिय परोवयारे मई जाणं- इति (भवभावनायाम् ६) इत्थं च सर्वथाऽप्युक्ताभिधानमनुपपन्नतयावस्थितमिति चेत् ?
न, अभिप्रायापरिज्ञानात्, य आत्मन्येव द्रव्यदयां परेष्वेव भावदयां विचिन्तयति, स्वशरीरं प्रतिपालयन् परदोषदर्शनमेव कुरुते, स्वात्मदोषोपेक्षां विधत्ते, तमुद्दिश्य प्रकृतोपदेशप्रवृत्तेः, यथोक्तम् - कार्यं च किं ते परदोषदृष्ट्या, कार्यं च किं ते परचिन्तया च। वृथा कथं खिद्यसि बालबुद्धे ! कुरु स्वकार्यं त्यज सर्वमन्यत् - इति (हृदयप्रदीपे १२)।
आत्मविक्रयेण परार्थोपदेशोऽपि तथाविधपात्रविशेषे दशाविशेषापेक्षयैव ज्ञेयः, सोऽपि यथाऽऽत्मार्थहानिर्न स्यात्तथैव, अन्यथा तु सोऽपि प्रतिक्रुष्टः, तदाह- अप्पहियं कायव्वं जइ सक्कइ परहियं च कायवं। अप्पहियपरहियादो अप्पहिदं सुट्ठ कादव्वं - इति (भगवत्याराधनायाम् १५४-३५१ उद्धरणम्)। अतः परार्थो गौणत्वेन, स्वार्थश्च प्रधानत्वेन सिद्धः। उक्तं च - तद् द्विधाऽथ च वात्सल्यं, भेदात् स्वपरगोचरात्। प्रधानं स्वात्मसम्बन्धि गुणो यावत् परात्मनि - इति (पञ्चाध्याय्याम् ८०९)।
नैतन्मात्रम्, दशाविशेषे तु परचिन्तामात्रमपि निषिद्धम्,