________________
१४०
आर्षोपनिषद् - अयमाशयः, यथा स्वात्मा सुखप्रियस्तथा परेषामपि, यथा च स्वात्मा दुःखद्विट्, तथा परेषामपि। यथा ममाक्रोशोऽप्रियः, केनचिदाक्रोशगोचरीक्रियमाणोऽहं दुःखमनुभवामि, तथा मयाऽपि कश्चित्तथाक्रियमाण इत्यलमाक्रोशेनेत्यादिचिन्तनेन कषायनिरोधः
कर्तव्यः।
Re-ऋषिभाषितानि - नैमित्तिकपरिहाररूपत्वात्, केवलं परिवर्जने सद्यलो विधेयः। एतत्तु लोकेऽपि सिद्धमिति निदर्शयति -
सत्थं सल्लं विसं जंतं मज्जं वालं दुभासणं। वज्जेंतो तण्णिमेतेणं दोसेणं ण विलुपति।।
॥३५-१२॥ शस्त्रम् - मुद्गरादि, शल्यम् - कण्टकादि, विषम् - सदिसत्कम्, यन्त्रम् - मत्स्याद्यपेक्षया गलयन्त्रादि, मद्यम् - द्राक्षादिनिष्पन्नम्, व्यालम् - गोनसादि विषधरम्, दुर्भाषणम् - परेषां जात्युद्घटनादिकृद् वचनम्, तदेतत् प्रत्येकं सर्वाणि वा वर्जयन् तन्निमित्तेन - तत्संयोगहेतुकेन दोषेण - शिर:कुट्टनाद्यपायेन, नापि लुप्यति - नैव विनाशमाप्नोति। एवं कषायनिमित्तवर्जनेऽपि विज्ञेयम्।
इतश्च कषायनिग्रहः सुकर इत्याह - आतं परं च जाणेज्जा सव्वभावेण सव्वधा। आयटुं च परटुं च पियं जाणे तहेव य।।३५-१३।। सर्वभावेन - निःशेषनयाभिप्रायेण, सर्वथा-सुखदुःखाद्यशेषसंवित्तिप्रकारेण, आत्मानम्-प्रत्यक्षसिद्धमात्मस्वभावम्, परं च - चेष्टादिलिङ्गानुमितं च स्वव्यतिरिक्तजीवस्वभावम्, जानीयात् - अवगच्छेत्।
तथैव च आत्मार्थं च परार्थं च प्रियं जानीयात्।
___ अथात्राऽपि कश्चिदेवं चिन्तयेत् - पर एवाक्रोशादिना क्रोधादि मा कुर्यात्, सर्वेऽपि परे दोषशोधनं कुर्वन्तु इति, तं प्रत्युपदेष्टि
सए गेहे पलित्तम्मि किं धावसि परातकं। 'सयं गेहं णिरित्ताणं ततो गच्छे परातक।।३५-१४।।
स्वके - आत्मीये, गृहे - मन्दिरे, प्रदीप्ते - जाज्वल्यमानज्वलनज्वालासहस्राकुले सति, किमर्थं परेणात्मीकृतम् - स्वीकृतम् - परात्मकम्, परकीयं गृहमित्यर्थः, तद् विध्यापयितुं धावसि ?, नैतत् प्रेक्षावल्लक्षणमिति भावः। अर्थापन्नमेवाहस्वकम् - निजं गृहं निरिच्य - विध्यापनाद्युपायैर्निरग्निं कृत्वा, ततः परात्मकम् - परकीयं गृहं विध्यापनार्थं गच्छेत्। अन्यथा लोकोपहासपात्रता - धनविनाशाद्यपायानुषङ्गात्। एवं दृष्टान्तमभिधाय साम्प्रतं दार्टान्तिकमाचष्टे -
आतढे जागरो होहि मा परट्ठाहिधारए। आतट्ठो हायए तस्स जो परट्ठाहिधारए।।३५-१५।।
१. ख.ठ.थ - बालं । २. क.घ.च.छ.झ.ढण.त - लुप्पति । ख.ट.ठ.थ.ध.न.प.फ - लिप्पति । ग - ण विलप्पति ।
१. क.ढ - सेतं । ख.द.ठ.ध.न.फ - सेत्तं । ग.घ.च.छ.झ.ड.त - सयं। ट - सत्तं । ण - सेत। थ - सए।