________________
Re-ऋषिभाषितानि
-१३७ सम्यक् शरव्यीकृतस्तु, एकं भवमेव विनीयते, वार्तमानिकभवमात्रं समाप्येतरभवं नीयत इत्यर्थः, क्रोधबाणेन विद्धस्तु - कोपोदयकलुषितान्तःकरणस्तु, भवसन्ततिम् - यावदनन्तजन्मपरम्पराम्, नीयते - भ्राम्यते। एवम् -
अण्णाणविष्पमूढप्पा पच्चुप्पणाभिधारए। माणं किच्चा महाबाणं अप्पा विंधड़ अप्पकं।।
॥३५-४॥ मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति। माणबाणेण विद्धे तु णिज्जती भवसंतति।।
॥३५-५॥ अन्नाणविप्पमूढप्पा पच्चुप्पणाभिधारए।। मायं किच्चा महाबाणं अप्पा विंधइ अप्पकं।।
॥३५-६॥ मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति। मायाबाणेण विद्धे तु णिज्जती भवसंतति।।३५-७।। अन्नाणविप्पमूढप्पा पच्चुप्पण्णाभिधारए। लोभं किच्चा महाबाणं अप्पा विधइ अप्पकं।।
॥३५-८॥ मण्णे बाणेण विद्धे तु भवमेक्कं विणिज्जति। लोभबाणेण विद्धे तु णिज्जती भवसंतति।।३५-९।। पूर्ववत्। यत एवम् -
१३८
आर्षोपनिषद् - तम्हा तेसिं विणासाय सम्ममागम्म संमति। अयं परं च जाणित्ता चरे विसयगोयरं।।३५-१०।।
तस्मात् - क्रोधादीनां दारुणविपाकवत्त्वात्, तेषाम् - कोपादीनाम्, विनाशाय - एकान्तिकात्यन्तिकक्षयोपपत्त्यै, सम्यक् - निश्चयसारम्, सन्मतिम् - कषायप्रक्षयप्रगुणां प्रज्ञाम्, आगम्य, सम्प्राप्य, आत्मानं परं च ज्ञात्वा, स्वपरसम्बन्धिकषायविपाकादि विदित्वेत्यर्थः, विषयाः - कषायनिग्रहनिबन्धनभूता अर्थविशेषाः, त एव गोचरः - अनुप्रेक्षाविषयो यथा स्यात्तथा-विषयगोचरम्, चरेत् - सर्वावस्थासु विहरेत्।।
अयमभिप्रायः, परीषहाद्यवस्थास्वपि द्विधा मनःपरिणामसम्भवः कषायोदयानुगुणस्तन्निरोधप्रगुणश्च, तस्मादास्ववस्थासु तथा चरेद्यथा तन्निरोधालम्बनमेवार्थपदं मनोरमणं कुर्यादिति। एतदेव व्यतिरेकतो निरूपयति -
जेसु जायते कोधाती कम्मबंधा महाभया। ते वत्थू सव्वभावेणं सव्वहा परिवज्जए।।३५-११।।
येषु - निमित्तेषु सत्सु, कर्मबन्धा महाभयाश्च, तद्धेतुभावात्, क्रोधादयो जायन्ते - उदयद्वारेणाविर्भवन्ति, तानि कषायनिबन्धनभूतानि वस्तूनि सर्वभावेण - तत्परिहारपरिणतिसामग्र्येण, सर्वथा - त्रिविधत्रिविधेन, परिवर्जयेत् - यथा स्वप्नेऽपि तेषां योगो न स्यात्तथा त्यजेत्।
स्यादेतत्, कृतेऽपि निमित्तत्यागे यदि नैमित्तिकसमुन्मज्जनं तदैतदपि परिवर्जनं विफलमेवेति चेत् ? न, निमित्तत्यागस्यैव तत्त्वतो