Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 74
________________ Re-ऋषिभाषितानि कालस्स कंखणं वा वि णण्णत्तं वा वि हायती।। ॥३४-४॥ दीनस्य - उत्कटमोहोदयविवशस्य, तुः- प्रज्ञापनीयाद्भिन्नपक्षद्योतकः, किम् - गुणकरणोद्देशेन प्रतिवचनादि, क्रियते - कर्तुं शक्यते ? न किञ्चिदित्याशयः। यतो णण्ण इति देश्यशब्दो दुर्जनपर्यायः, तद्भावो णण्णता, दुर्जनतेत्यर्थः, सा किंरूपेत्याह - देहकाङ्क्षणम्, आत्मीयैहिकशरीरमात्रसुखाभीप्सा, न परशरीरपीडासापेक्षता, नाप्यात्मन एव परलोकीयकायसौख्यस्पृहा तस्य भवतीति हृदयम्, तस्मादस्मिन्नुक्तमपि विफलतामेव भजत इति न किञ्चिदस्मायुच्यते। यद्वा तादृशस्यानुग्रहार्थमपि कालस्य - उचितसमयस्य, काङ्क्षणम् - प्रतीक्षा कर्तव्या, किं सम्प्रधार्येत्याह- यद्बाप्यस्य णण्णत्वम् - दुर्जनत्वम्, तथाविधभवितव्यतादिपरिपाकतोऽन्तराले हीयते - हानिमापद्यते। न चाप्तवचसोऽपि तदर्वाक् परिणमनं सम्भवीत्यवश्यं कालप्रतीक्षा कर्तव्या, उक्तं च- नागमवचनं तदधः सम्यक् परिणमति नियम एषोऽत्र। शमनीयमिवाभिनवज्वरोदयेऽकाल इति कृत्वा - इति (षोडशके ५-४)। अन्यत्रापि - गुरुकम्माणं जम्हा किलिट्ठचित्ताण तस्स भावत्थो। नो परिणमेइ सम्म कुंकुमरागो व मलिणमि।। विट्ठाण सूअरो जह उवएसेण वि न तीरए धरिउं। संसारसूअरो इय, अविरत्तमणो अकज्जम्मि - इति (पञ्चवस्तुके ४२-४३)। एवं चोपदेशस्याप्यविषयत्वेन दुर्लभबोधिको लोकस्तत्तदकार्यप्रवृत्तेस्तत्प्रत्ययिककर्माणि बद्ध्वा विपाककाले १३२ आर्षोपनिषद् - निपीड्यते, एतदपि पण्डितस्य निर्वेदायेत्याह णच्चाण आतुरं लोकं णाणावाहीहि पीलितं। णिम्ममे णिरहंकारे भवे भिक्खू जितिदिए।। ॥३४-५॥ नाना - कुष्ठाद्यनेकप्रकाराः, व्याधयः-रोगाः, तैस्पीडितम् - दुःखितम्, अत एवातुरम् - ग्लानिमापन्नम्, लोकं ज्ञात्वा - श्रुतादिचक्षुषोपलभ्य, भिक्षुः, तत्तद्दुःखनिबन्धनरागादिदोषात्मकक्षुधाभिदाकृत्, निर्ममः - स्वशरीरेऽपि ममकारवर्जितः, निरहङ्कारः - अहम्भावमात्रेणाऽप्यस्पृष्टः, जितेन्द्रियश्च - उपस्रष्टुरप्यनुकम्पनीयतया तद्दोषेक्षणादावव्यापृतेन्द्रियः, भवेत्। किञ्च - पंचमहव्वयजुत्ते अकसाए जितिदिए। से हु दंते सुहं सुयति णिरुवसग्गे य जीवति।। ॥३४-६॥ पञ्चमहाव्रतैर्युक्तः - सन्ततसम्यगभ्यस्ततया तदनुस्यूतात्मा, पंचमहव्वयगुत्ते - इति पाठे तु पञ्च महाव्रतानि यस्य विद्यन्ते सः - पञ्चमहाव्रतः, स च त्रिसृभिर्गुप्तिभिर्गुप्त इति कर्मधारयः। यद्वा पञ्चमहाव्रतैर्गुप्तः - हिंसादिपापेभ्यः कृतात्मरक्षण इत्यर्थः। तथाऽकषायः - उदयनिरोधनिग्रहाभ्यामफलताऽऽपादनेनाकिञ्चित्करतयाऽसत्प्रायाः - क्रोधादिकषाया यस्य सः, तमेव १. क.ख.ग.घ.ज.ट...णत - भिक्खू । च.थ.ध.प.फ.झ - भिक्खु । २. क.ख.ज.द.ट.ठ.ढण.थ.न.फ - महब्वयगुत्ते । ग.घ.च.छ.झ.त.ध.प - महव्वयजुत्ते ।

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132