Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि
१२९ बाले क्षमितव्यम्। एवंस्वभावा हि बाला भवन्ति, दिष्ट्या च मां ताडयति, न प्राणैर्वियोजयतीति, एतदपि विद्यते बालेष्विति। प्राणैर्वियोजयत्यपि बालैः क्षमितव्यम्, दिष्ट्या च मां प्राणैर्वियोजयति न धर्माद् भ्रंशयतीति क्षमितव्यम्। एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः - इति (तत्त्वार्थभाष्ये ९-६)।
एतदेव समासत उक्तमन्यत्र-अक्कोस-ताडण-मारणधम्मभंसाण बालसुलभाण। लाभं मन्नइ धीरो जहुत्तराणं अभावम्मि - इति। केनैवमुक्तमित्याह
इसिगिरिणा माहणपरिव्वायएणं अरहता बुइत।।१।। ऋषिगिरिणा ब्राह्मणपरिव्राजकेनार्हतर्षिणोदितमिति। इत्थं च - जेण केणइ उवाएणं पंडिओ मोइज्ज अप्पकं। बालेणुदीरिता दोसा तं पि तस्स 'हिता भवे।।
॥३४-२॥ पण्डितः-अनन्तरोक्ततत्त्वकोविदः, येन केनाप्युपायेन क्षमानुगुणाध्यवसायेन, आत्मानम् - निजम्, मोचयेत् - कोपविकारविमुक्तीकुर्यात्। कथमेतन्मोचनं परीषहादौ शक्यमिति चेत् ? अत्राह - बालेनोदीरिता दोषाः - आक्रोशाद्यपायाः, तदप्युदीरणं पाण्डित्यानुभावेन तथा परिणमेत् यद् ते - उक्तापाया अपि तस्य हिताः - कल्याणकरा एव भवेयुः, क्षमागुणस्फातिहेतुभावादिति। १. क.ग.द.ढ.ण.ध.न.प.फ - हिता। ख - हंता। घत.झ- हितं । च- हिजं । ज.ट..थ - हता।
१३०
- आर्षोपनिषद् - स्यादेतत्, अध्यास्यापि चेदसौ बालं प्रतिवचःप्रमुखं दद्यात्, तदा तु दोषवृद्धिरेवेति कथं हितमिति चेत् ? न, प्रतिवचस एवाभावात्, एतदेव स्पष्टयति
अपडिण्णभावाओ उत्तरं तु ण विज्जती। सई कुव्वइ वेसे णो अपडिण्णे इह माहणे।।३४-३।।
न विद्यते काचित् प्रतिज्ञा - सर्वैरपि मया सहानुकूलीभूय एव वर्त्तितव्यमित्यादिलक्षणा यस्य सः-अप्रतिज्ञः, तस्य भावः - अप्रतिज्ञभावः, तस्मात्, उत्तरम् - प्रतिवचः, न तु नैव, विद्यते यदाऽस्य पाण्डित्यानुभावेनाक्रोशाद्यपि बालसुलभतया सङ्गतत्वेनैव प्रतिभासते, तदा कोऽस्य प्रतिवचोगन्धोऽपीति। तस्मादप्रतिज्ञो माहनश्चासौ इह - अध्यासनविधौ स्वयं कदापि द्वेषान् - विरोधान्, न करोति - नैवोदीरयति। अत्र विरोधानुदीरणे कर्तृविशेषणद्वारेण हेतुद्वयमुपदर्शितम्, अप्रतिज्ञत्वात्, अहमाक्रोशादेरविषय एव, मा भून्ममेषदपि कष्टम्, सर्वैः सज्जनैरेव भाव्यम्, मया सहानुकूलमेव व्यवहरितव्यम् - इत्याद्याकाराया प्रतिज्ञाया अभावात् - इत्याद्यो हेतुः। तथा माहनत्वात् - मनसाऽपि परपीडापरिहारपरायणत्वात्तादृशवचोविषयेऽस्य मूकत्वादित्यपरो हेतुः। अनया चोदारविचारणया पण्डित उपेक्षत इत्याह
किं कज्जते उ दीणस्स णण्णता देहकखणं।
१. क.ज.ठ..ण - णण्णता। ख - पण्णता वि ह कखणं । ग - णऽण्णत्ता। घ.त.झ - णऽण्णत्व। च - णण्णत्थ। ट.फ - णणता। प. पाणता। ध.प - गणण्णता।

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132