Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 75
________________ ऋषिभाषितानि १३३ - विशेषयति - जितेन्द्रियः - सुखासुखनिमित्तभूतविषयेषु समचित्तः । उद्देश्यमभिधाय विधेयमाह स तु स एव, दान्तः - दमितात्मा, स एव स सुखं स्वपीति - चतुर्विधसंवरसमाधिलक्षणसुखशय्योपभोगं विधत्ते। निरुपसर्गश्च जीवति, सम्यक् तितिक्षया क्रमशोऽसातवेदनीयकर्मक्षपणात्, हेत्वभावतस्तत उपसर्गनिमित्तायोगात्। यद्वोपसर्गसद्भावेऽपि तितिक्षादियोगमाहात्म्यात्तदवेदनान्निरुपसर्गजीवनं विज्ञेयम्, तदुक्तम् - अवेदनं विदुर्योगम् - इति (अध्युपनिषदि - २) । उपसर्गेष्वप्यनुकूलोपसर्गाः सुदुःसहा इति तत्फलप्रख्यापनेन तदधिसहनायोपदेष्टि - जेण लुब्धति कामेहिं छिण्णसोते 'अणस्सवे। सव्वदुक्खप्पहीणो हु सिद्धे भवति णीरए । । ।।३४-७।। यः - महात्मा, छिन्नान्यपनीतानि स्रोतांसि संसारावतरणद्वाराणि यथाविषयमिन्द्रियवर्तनानि, प्राणातिपातादीनि वाऽऽश्रवद्वाराणि येन सः छिन्नस्रोता, अत एवानाश्रवः - पापकर्मबन्धरहितः, यद्वाऽऽश्रवति विषयान् शोभनत्वेनाशोभनत्वेन वा गृह्णातीत्याश्रवः, नाश्रवः - अनाश्रवः, अत एव कामैः - मनोज्ञैः शब्दादिविषयैः, न लुभ्यति न तृष्णाविकारमापादयितुं शक्यते स सर्वदुःखानि शारीरमानसकष्टानि, प्रहीणानि क्षीणानि यस्य स सर्वदुःखप्रहीणः, विशेषणपरनिपातः प्राकृतत्वात्, तुः - दुःखाक्रान्ताशेषविश्ववैशिष्ट्यद्योतकः, दुःख १. क. ख. ज. ट. ठ.ढ ण थ.ध.न.प.फ अणरसवे । ग.घ.च. छ. झ.त अणासवे । - - - १३४ आर्षोपनिषद् क्षयोऽपि कथमित्याह - सितम् पूर्वबद्धं कर्म, ध्मातम् शुक्लध्यानानलपरिप्लुष्टं येन सः सिद्धः, दुःखहेतुविनाशेन तद्विनाशनादित्याशयः, किमुक्तं भवति - नीरजाः - व्यपगतात्मस्वरूपोपरञ्जकाशेषोपाधिरजा भवति । एतदेव व्यासत आह - - यन्नाह - एवं से सिद्धे बुद्धे विरते विपावे दंते दविए । अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ।। ति बेमि ।। एवम् - कामतृष्णाविरहेण, सः पण्डितात्मा सिद्ध इत्यादि प्राग्वत् । इति चतुस्त्रिंशत्तम ऋषिगिरिनामाध्ययन आर्षोपनिषद् । ॥ अथ पञ्चत्रिंशत्तमोऽध्यायः ।। अनन्तराध्ययने तितिक्षाद्युपदेशोऽभिहितः, स च कषायनिग्रहमन्तरेणानुष्ठातुमशक्यः, तस्मादत्र तन्निग्रहविधावेवोपदेश " चउहिं ठाणेहिं खलु भो ! जीवा कुष्पंता 'मज्जेता गूहंता लुब्धंता वज्जं समादियंति, वज्जं समादिइत्ता चाउरंतसंसारकंतारे पुणो पुणो अत्ताणं पडिविद्धंसंति, तं जहा- कोहेणं माणेणं मायाए लोभेणं । तेसिं च णं अहं पडिघातहेउं अकुप्पंते अमज्जते अगूहंते अलुब्धंते तिगुत्ते तिदंडविरते सिल्ले अगारवे चउविकहविवज्जिए पंचसमिते १. क. ख. ज. ट. ठ. थ. ध.न.प.फ मेज्जता । ग.च.झ.ढ मज्जन्ता । ण मज्जता । २. क. ख. ढ ध ज थ न.प. फ ट ठ ण. त विवज्जिए । मज्जता । घ. छ. त विवज्जए। ग.घ.च.झ.

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132