________________
ऋषिभाषितानि
१३३
-
विशेषयति - जितेन्द्रियः - सुखासुखनिमित्तभूतविषयेषु समचित्तः । उद्देश्यमभिधाय विधेयमाह स तु स एव, दान्तः - दमितात्मा, स एव स सुखं स्वपीति - चतुर्विधसंवरसमाधिलक्षणसुखशय्योपभोगं विधत्ते। निरुपसर्गश्च जीवति, सम्यक् तितिक्षया क्रमशोऽसातवेदनीयकर्मक्षपणात्, हेत्वभावतस्तत उपसर्गनिमित्तायोगात्। यद्वोपसर्गसद्भावेऽपि तितिक्षादियोगमाहात्म्यात्तदवेदनान्निरुपसर्गजीवनं विज्ञेयम्, तदुक्तम् - अवेदनं विदुर्योगम् - इति (अध्युपनिषदि - २) । उपसर्गेष्वप्यनुकूलोपसर्गाः सुदुःसहा इति तत्फलप्रख्यापनेन तदधिसहनायोपदेष्टि -
जेण लुब्धति कामेहिं छिण्णसोते 'अणस्सवे। सव्वदुक्खप्पहीणो हु सिद्धे भवति णीरए । ।
।।३४-७।।
यः - महात्मा, छिन्नान्यपनीतानि स्रोतांसि संसारावतरणद्वाराणि यथाविषयमिन्द्रियवर्तनानि, प्राणातिपातादीनि वाऽऽश्रवद्वाराणि येन सः छिन्नस्रोता, अत एवानाश्रवः - पापकर्मबन्धरहितः, यद्वाऽऽश्रवति विषयान् शोभनत्वेनाशोभनत्वेन वा गृह्णातीत्याश्रवः, नाश्रवः - अनाश्रवः, अत एव कामैः - मनोज्ञैः शब्दादिविषयैः, न लुभ्यति न तृष्णाविकारमापादयितुं शक्यते स सर्वदुःखानि शारीरमानसकष्टानि, प्रहीणानि क्षीणानि यस्य स सर्वदुःखप्रहीणः, विशेषणपरनिपातः प्राकृतत्वात्, तुः - दुःखाक्रान्ताशेषविश्ववैशिष्ट्यद्योतकः, दुःख
१. क. ख. ज. ट. ठ.ढ ण थ.ध.न.प.फ अणरसवे । ग.घ.च. छ. झ.त अणासवे ।
-
-
-
१३४
आर्षोपनिषद्
क्षयोऽपि कथमित्याह - सितम् पूर्वबद्धं कर्म, ध्मातम् शुक्लध्यानानलपरिप्लुष्टं येन सः सिद्धः, दुःखहेतुविनाशेन तद्विनाशनादित्याशयः, किमुक्तं भवति - नीरजाः - व्यपगतात्मस्वरूपोपरञ्जकाशेषोपाधिरजा भवति । एतदेव व्यासत आह -
-
यन्नाह
-
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए । अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ।। ति
बेमि ।।
एवम् - कामतृष्णाविरहेण, सः पण्डितात्मा सिद्ध इत्यादि प्राग्वत् । इति चतुस्त्रिंशत्तम ऋषिगिरिनामाध्ययन आर्षोपनिषद् । ॥ अथ पञ्चत्रिंशत्तमोऽध्यायः ।। अनन्तराध्ययने तितिक्षाद्युपदेशोऽभिहितः, स च कषायनिग्रहमन्तरेणानुष्ठातुमशक्यः, तस्मादत्र तन्निग्रहविधावेवोपदेश
" चउहिं ठाणेहिं खलु भो ! जीवा कुष्पंता 'मज्जेता गूहंता लुब्धंता वज्जं समादियंति, वज्जं समादिइत्ता चाउरंतसंसारकंतारे पुणो पुणो अत्ताणं पडिविद्धंसंति, तं जहा- कोहेणं माणेणं मायाए लोभेणं । तेसिं च णं अहं पडिघातहेउं अकुप्पंते अमज्जते अगूहंते अलुब्धंते तिगुत्ते तिदंडविरते सिल्ले अगारवे चउविकहविवज्जिए पंचसमिते
१. क. ख. ज. ट. ठ. थ. ध.न.प.फ मेज्जता । ग.च.झ.ढ मज्जन्ता । ण मज्जता । २. क. ख. ढ ध ज थ न.प. फ ट ठ ण. त विवज्जिए ।
मज्जता । घ. छ. त विवज्जए। ग.घ.च.झ.