________________
Re-ऋषिभाषितानि कालस्स कंखणं वा वि णण्णत्तं वा वि हायती।।
॥३४-४॥ दीनस्य - उत्कटमोहोदयविवशस्य, तुः- प्रज्ञापनीयाद्भिन्नपक्षद्योतकः, किम् - गुणकरणोद्देशेन प्रतिवचनादि, क्रियते - कर्तुं शक्यते ? न किञ्चिदित्याशयः। यतो णण्ण इति देश्यशब्दो दुर्जनपर्यायः, तद्भावो णण्णता, दुर्जनतेत्यर्थः, सा किंरूपेत्याह - देहकाङ्क्षणम्, आत्मीयैहिकशरीरमात्रसुखाभीप्सा, न परशरीरपीडासापेक्षता, नाप्यात्मन एव परलोकीयकायसौख्यस्पृहा तस्य भवतीति हृदयम्, तस्मादस्मिन्नुक्तमपि विफलतामेव भजत इति न किञ्चिदस्मायुच्यते।
यद्वा तादृशस्यानुग्रहार्थमपि कालस्य - उचितसमयस्य, काङ्क्षणम् - प्रतीक्षा कर्तव्या, किं सम्प्रधार्येत्याह- यद्बाप्यस्य णण्णत्वम् - दुर्जनत्वम्, तथाविधभवितव्यतादिपरिपाकतोऽन्तराले हीयते - हानिमापद्यते। न चाप्तवचसोऽपि तदर्वाक् परिणमनं सम्भवीत्यवश्यं कालप्रतीक्षा कर्तव्या, उक्तं च- नागमवचनं तदधः सम्यक् परिणमति नियम एषोऽत्र। शमनीयमिवाभिनवज्वरोदयेऽकाल इति कृत्वा - इति (षोडशके ५-४)। अन्यत्रापि - गुरुकम्माणं जम्हा किलिट्ठचित्ताण तस्स भावत्थो। नो परिणमेइ सम्म कुंकुमरागो व मलिणमि।। विट्ठाण सूअरो जह उवएसेण वि न तीरए धरिउं। संसारसूअरो इय, अविरत्तमणो अकज्जम्मि - इति (पञ्चवस्तुके ४२-४३)। एवं चोपदेशस्याप्यविषयत्वेन दुर्लभबोधिको लोकस्तत्तदकार्यप्रवृत्तेस्तत्प्रत्ययिककर्माणि बद्ध्वा विपाककाले
१३२
आर्षोपनिषद् - निपीड्यते, एतदपि पण्डितस्य निर्वेदायेत्याह
णच्चाण आतुरं लोकं णाणावाहीहि पीलितं। णिम्ममे णिरहंकारे भवे भिक्खू जितिदिए।।
॥३४-५॥ नाना - कुष्ठाद्यनेकप्रकाराः, व्याधयः-रोगाः, तैस्पीडितम् - दुःखितम्, अत एवातुरम् - ग्लानिमापन्नम्, लोकं ज्ञात्वा - श्रुतादिचक्षुषोपलभ्य, भिक्षुः, तत्तद्दुःखनिबन्धनरागादिदोषात्मकक्षुधाभिदाकृत्, निर्ममः - स्वशरीरेऽपि ममकारवर्जितः, निरहङ्कारः - अहम्भावमात्रेणाऽप्यस्पृष्टः, जितेन्द्रियश्च - उपस्रष्टुरप्यनुकम्पनीयतया तद्दोषेक्षणादावव्यापृतेन्द्रियः, भवेत्। किञ्च -
पंचमहव्वयजुत्ते अकसाए जितिदिए। से हु दंते सुहं सुयति णिरुवसग्गे य जीवति।।
॥३४-६॥ पञ्चमहाव्रतैर्युक्तः - सन्ततसम्यगभ्यस्ततया तदनुस्यूतात्मा, पंचमहव्वयगुत्ते - इति पाठे तु पञ्च महाव्रतानि यस्य विद्यन्ते सः - पञ्चमहाव्रतः, स च त्रिसृभिर्गुप्तिभिर्गुप्त इति कर्मधारयः। यद्वा पञ्चमहाव्रतैर्गुप्तः - हिंसादिपापेभ्यः कृतात्मरक्षण इत्यर्थः।
तथाऽकषायः - उदयनिरोधनिग्रहाभ्यामफलताऽऽपादनेनाकिञ्चित्करतयाऽसत्प्रायाः - क्रोधादिकषाया यस्य सः, तमेव
१. क.ख.ग.घ.ज.ट...णत - भिक्खू । च.थ.ध.प.फ.झ - भिक्खु । २. क.ख.ज.द.ट.ठ.ढण.थ.न.फ - महब्वयगुत्ते । ग.घ.च.छ.झ.त.ध.प - महव्वयजुत्ते ।