Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 56
________________ - ऋषिभाषितानि मण्णेति भद्दका भद्दकाई मधुराई मधुरं मण्णेति। कडुयभणियाई कडुअं, फरुसं फरुसाई मण्णेति ॥३०-७॥ भद्रकाः - स्वतः सुन्दरात्मानः, परेषां यादृशतादृशान्यपि वचांसि भद्रकानीति मन्यन्ते, तथैव यस्य वचो मधुरम्, मधुररसवदपरेषामालादनिबन्धनम्, सोऽपरेषां वचनानि मधुराण्येव मन्यते। यस्य च कटुकं वचः, कटुकरसास्वादवदुद्वेगजनकमित्यर्थः, सोऽपरेषां कटुकभणितान्येव मन्यते, एवं यस्य परुषं वचनं स इतरेषां वचांसि परुषाण्येव मन्यते। अयमाशयः, यथा दृष्टिस्तथा सृष्टिरितिनीत्या भद्रपरिणामस्य सर्वेषु भद्रकतादर्शनं सञ्जायते, एवं च स्वतः शोभनस्य, सर्वेषु शोभनत्वदर्शिनस्तेषु व्यवहरतो मधुरवचनान्येव निसर्गतो निःसृज्यन्ते, तच्छ्रवणेन सञ्जातालादातिशयाः परेऽप्यनेन सह तथैव व्यवहरन्ति। ततश्चासौ मन्यते स्वभावत एव मधुराणि वचांस्येषामिति। १. क.ज. - मण्णेति भद्दका भद्दकाई । ख. थ - मोणंति भइकाई । ग.ढ.फ - मण्णेति भहका भहकाई। ण.ध.प - मण्णेति भइका भड़काई। घ.त. . मण्णंति भद्दका भद्दका इ मधुरं मधुरं ति माणति । कडुयं कडुयं भणियं ति फरुसं फरुसं ति माणति ।। २. कढ़ - मधुराई मधुरं मण्णेति । ग - मधुरं मधुणति च - मधुरंति माण ति। ख.ज.ठ.ध.ध.न.प.फ - मधुराई - विना । ण - मधुराई मधुरमाण्णेति । ३. क.ख.ज.ढण.थ - कडुयभणियाई कडुअं। ग - कडुयं (कडुय) भणियाई । झ - कडुयं कडुयभणियं ति । ध.न.प.फ - कडुयं - विना। ४. क.ख.ज.ढ.ण.थ.ध.न.प - फरुसं फरुसाई मण्णेति । ग - फरुसं फरुसाई माणति। - आर्षोपनिषद् - ___ यस्तु कटुकमेव वचनं भाषते, सोऽपि स्वानुरूपप्रतिवचनान्यवाप्य सर्वेषामपि कटुकभणितान्येव स्वभावत इति मन्यते, एवं परुषेष्वपि ज्ञेयम्। उक्तं च - नादत्तं लभ्यते क्वचित् - इति। तस्मात् - कल्लाणं ति भणंतस्स कल्लाणा ए पडिस्सुया। पावकं ति भणंतस्स पावया ते पडिस्सुया।।३०-८।। कल्याणमिति भणतः प्रतिश्रुद् गिरिकन्दरादौ कल्याणा इत्याकारैव भवति तथैव पापकमिति भणतः प्रतिश्रुत् पापका इत्याकारैव भवतीति प्रसिद्धम्। दार्टान्तिकमाह पडिस्सुयासरिसं कम्मं णच्चा भिक्खू सुभासुभं। तं कम्मं तु णिसेवेज्जा जेणं भवति णीरए।।३०-९।। भिक्षुः - रागादिलक्षणक्षुत्तिा, प्रतिश्रुत्सदृशम् - अनन्तरोक्तशुभेतरशब्दानुरूपप्रतिशब्दसङ्काशम्, शुभाशुभम् - कल्याणं पापकं च, कर्म-मनोवाक्कायकृत्यम्, इति ज्ञात्वा, तत् कर्म तु - तदेव कृत्यम्, निःशेषेण - सर्वात्मनोद्यम्य, सेवेत - आराधयेत्, येन - यत्कर्मणा, नीरजाः - निर्गतकृत्स्नकर्मरेणुः, भवति। नीरजस्कीभवनमेव व्यासत आह - एवं से सिद्ध बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति।। त्ति बेमि।। एवम् - नीरजस्कावस्थाबीजभूतकर्मनिषेवनेन, सः - निषेविता, सिद्ध इत्यादि प्राग्वत्। इति त्रिंशत्तमे वायुनामाध्ययन आर्षोपनिषद्।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132