Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 70
________________ • ऋषिभाषितानि - १२३ सुगमम्। उक्तं च - उत्तमगुणसंसग्गि, सीलदरिद्दं पि कुणइ सील । जह मेरुगिरिविलग्गं तणं वि कणगत्तणमुवेइ - इति । अत्र शीलगुणानुसङ्क्रमोदाहरणमेव दाढर्यार्थमुपन्यस्यति - कल्लाणमित्तसंसग्गिं संजयो मिहिलाहिवो । फीतं महितलं भोच्चा तम्मूलाकं दिवं गतो ।। ।।३३-१७।। मिथिलाधिपः मिथिलानगरीस्वामी, संयतः स्वनामख्यातो राजा, कल्याणप्रयोजकं मित्रम् - कल्याणमित्रम्, तस्य संसर्गं कृत्वा, प्रागवस्थायां स्फीतम् - विस्तीर्णम्, महीतलम् - वसुन्धरातलम्, भुक्त्वा, स्वकीयराज्यलक्ष्मीतयोपभोगं कृत्वा, तन्मूलकम् सः - कल्याणमित्रसंसर्गः, यथा मूलम् - निबन्धनं स्यात्तथा, दिवम् - स्वर्गम्, गतः प्राप्तः, सत्सङ्गानुभावानुषक्तशीलादिगुणपरिणतिप्रभावेन सुरालयमाससादेत्याशयः । - एष च राजा तृतीयाङ्गोदितः श्रीवीरस्वामिप्रव्राजितनृपाष्टकमध्यगतः सम्भाव्यते, यथोक्तम् समणेणं भगवता महावीरेण अट्ठ रायाणो मुंडे भवेत्ता अगारातो अनगारितं पव्वाविता, तं० - वीरंगय वीरजये संजय - एणिज्जते य रायरिसी । सेयसिवे उदायणे (तह संखे कासिवद्धणे ) - इति (स्थानाङ्गे ८- ७३२) । क एवमाहेत्यत्र प्रतिविधत्ते - अरुणेण महासालपुत्त्रेण अरहता इसिणा बुझतं । अरुणेन महासालपुत्रेणार्हतर्षिणोदितम्। उपसंहरति सम्मत्तं च अहिंसं च सम्मं णच्चा जितिंदिए । - १२४ आर्षोपनिषद् कल्लाणमित्तसंसग्गिं सदा कुव्वेज्ज पंडिते ।। ।।३३-१८।। - तस्मात् जितेन्द्रियः अमित्रसंस्तवादौ प्रतिषिद्धेन्द्रियः, सम्यक्त्वम् - सम्यग्दर्शनम्, एतेन सम्यग्ज्ञानग्रहः, सहभावित्वात् । अहिंसाम् – सम्यक्चारित्रम्, चौ- समुच्चये । एतत्रितयमेव सम्यक् समीचीनमिति ज्ञात्वा प्रवचनेन प्रतिपद्य पण्डितः - मित्रामित्रपरिज्ञानपटुमतिः, सदा - नित्यम्, कल्याणमित्रसंसर्ग कुर्यात्। तत एव सद्दर्शनादिसम्प्राप्तेस्तद्विशुद्धेश्च सम्भवात्। तदेतत् कल्याणमित्रसंसर्गस्यानन्तरं फलम्, साम्प्रतं परम्परफलं साक्षादेवाभिदधन्नाह - - एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ।। त्ति बेमि । । एवम् नित्यं कल्याणमित्रसंसर्गात्, सः - - तत्संसर्गकृत्, सिद्ध इत्यादि प्राग्वत् । इति त्रयस्त्रिंशत्तमेऽरुणीयाध्ययन आर्षोपनिषद् । - ।। अथ चतुस्त्रिंशत्तमोऽध्यायः ।। अनन्तराध्ययने बालस्थानीयामित्रपरिहार उपदिष्टः, तं परिहरतोऽपि कदाचिद् भवितव्यतादियोगात्ततः परीषहादिसम्भवः स्यात्, अतस्तत्कालोचितं कर्तव्यमाह पंचहिं ठाणेहिं पंडिते बालेणं परीसहोवसग्गे उदीरिज्जमाणे सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अधियासेज्जा - बाले खलु पंडितं परोक्खं फरुसं

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132