Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 68
________________ 70 ऋषिभाषितानि स्वतन्त्रसुखदुर्ललितः सुरेषु। वाक्यामृतं तव पुनर्विधिनोपयुज्य, शूराभिमानमवशस्य पिबन्ति मृत्योः - इति (सिद्धसेनी द्वात्रिंशिकायाम् २-४)। अत एतदेव परमार्थतोऽमृतम्, अपरत्र वाङ्मात्रत्वादिति सिद्धम् । तस्मात् पुणं तित्थमुवागम्म पेच्चा भोज्जाहि जं फलं । सद्धम्मवारिदाणेणं खिप्पं सुज्झति माणसं । । ११९ ।।३३-११।। पुण्यम् - वक्ष्यमाणरीत्या मनोविशुद्धिहेतुत्वेन पवित्रम्, तीर्थम् संसारसागरनिस्तारकम्, एतच्च साधुजनविशेषणम्, यदाह - साधूनां दर्शनं पुण्यं, तीर्थभूता हि साधवः । तीर्थं फलति कालेन, सद्यः साधुसमागमः - इति । तदेतत् तीर्थमुपागम्य धर्मश्रोता प्रेत्य यदस्य पूर्वोक्तममृतात्मकं फलं तद् भुञ्ज्यात् । उक्तफलावाप्तिरपि शुभानुबन्धिपुण्यवशात्, तदपि तथाविधमनः परिणामविशुद्ध्येति धर्मश्रवणस्यैतदेवानन्तरफलत्वेन साक्षादाह- सद्धर्म एव वारि जलम्, मलशोधनसाधर्म्यात्, तस्य दानेन - धर्मवाक्यश्रावणेनेत्याशयः, क्षिप्रम् झटिति, योग्ये श्रोतरि तत्फलोत्पत्तौ कालक्षेपायोगात्, मानसम् - अन्तःकरणम्, शुध्यति - भावमलापगमेन निर्मलीभवति । अधर्मवाक्यं तु विपरीतफलमित्याह सब्भाववक्कविवसं सावज्जारंभकारकं । दुम्मित्तं तं वियाणेज्जा उभयोलोयविणासणं ।। ।।३३-१२ ।। आर्षोपनिषद् स्वभावेन - प्रकृत्यैव, यदुत्सूत्रत्वादिदोषदुष्टं वाक्यम् - वचनम्, तद्वक्तुं विवशम् - परतन्त्रम्, अयं भावः - उत्सूत्रादेः कटुविपाकत्वेऽपि तथाविधभवितव्यतादेरसाववशतया तदेव वक्तीति । तथा सावद्यः पापसहितः, आरम्भ:- गृहनिर्वर्तनादिविषय उपक्रमः, तस्य कारकः - कारयिता, न चैतद्विषयप्रेरणमपि युज्यते, अनर्थदण्डापत्तेः, किन्त्वसौ धाष्टर्यमवलम्ब्य तमुपदिश्य कारयतीति । उपलक्षणमेतत्, तेनान्याऽप्यस्य तथाविधा स्वपरापकारकहेतुता द्रष्टव्या। तदेवमुत्सूत्रभाषणादिदोषदुष्टं तं दुर्मित्रम् दुष्टहृदं नामसुहृदम्, अभिधानमात्रेण मित्रं परमार्थशत्रुमित्यर्थः, उभयलोकयोः इहपररूपयोः, विनाशनम् - सुखलेशोच्छेदकम् विजानीयात् श्रुतप्रज्ञाचक्षुषाऽवगच्छेत्। यतः - सप्पो इक्कं मरणं कुगुरु अणंताई देइ मरणाई। तो वरि सप्पं गहिउं मा कुगुरुसेवणं भद्द ! इति (षष्टिशतके ३७।। ) । भवति हि दुर्मित्रसेवया दौर्गत्यादिदु:खम्, उक्तं च- अमित्तो मित्तवेसेण कंठे घेत्तूण रोय । मा मित्ता सुग्गइं जासु दो वि गच्छामु दोग्गई - इति (सूत्रकृते १३- २ वृत्ती) कस्तर्हि सन्मित्रमित्यत्राह - १२० - - सम्मत्तरियं धीरं सावज्जारंभवज्जकं । तं मित्तं सुठु सेवेज्जा उभओलोकसुहावहं । । ।।३३-१३।। सम्यक्त्वम् - प्रशमादिव्यक्तीभवन् शुभात्मपरिणामः, तस्मिन् निरतम् - सततं परिणतम् । धिया सम्यग्ज्ञानपूतप्रज्ञया राजत इति धीरः, तम्। तथा सावद्यारम्भस्य वर्जकम् - त्रियोगकरणशुद्ध्या

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132