Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 69
________________ -१२१ १२२ Re-ऋषिभाषितानि - त्यागिनम्, एवं सम्यग्दर्शनज्ञानचारित्रविभूषिततया स्वपरयोर्हितहेतुत्वेनोभयलोकसुखावहं, तं मित्रं - सद्गुरुं, सुष्ठु सम्यग्रीत्या, यथा दरिद्रादिरीश्वरादि सेवते तथा प्रयत्नपुरस्सरमित्यर्थः सेवेत - पर्युपासेत, तत्र बहुमानादियुक्ततया तदाज्ञाचरो भवेदिति यावत्, उक्तं च - सेवेज्ज धम्ममित्ते विहाणेण, अंधो विय अणुकड्ढगे, वाहिओ विव वेज्जे, दरिदो विय ईसरे, भीओ विव महानायगे। न इओ सुंदरतरमन्नं ति बहुमाणजुत्ते सिया, आणाकंखी, आणापडिच्छगे, आणा अविराहगे, आणानिप्फायगे त्ति - इति (पञ्चसूत्रे २)। ननु निरर्थकोऽयमुपदेशः, मित्रामित्रयोरकिञ्चित्करत्वात्। एतच्च मणिकाचज्ञातेनैव सिद्धम्, यदाह- एकत्र विनिवेशेऽपि काचः काचो मणिर्मणिः - इति (त्रिषष्टिशलाकापुरुषचरित्रे) चेत् ? न, मण्यादेरभावुकद्रव्येनोदाहरणवैषम्यात्, जीवस्य भावुकद्रव्यत्वात्, पवनादिवदित्याह संसग्गितो पसूयंति दोसा वा जइ वा गुणा। वाततो मारुतस्सेव ते ते गंधा सुहावहा।।३३-१४।। दोषा वा - कुशीलत्वादयः, यदि वा गुणाः - सुशीलत्वादयः, संसर्गतः - दुर्मित्रमित्रसंस्तवादेः, प्रसूयन्ते - प्रागसन्तोऽपि समुद्भवन्ति। वाततः कृतचन्दनवनादिसम्पर्कात् पवनतः, मारुतस्येव - अपरसमीरणस्येव, ते ते शुभावहा गन्धा भवन्ति - तादृश-तादृशमनोज्ञसुरभिहेतुकसुखनिबन्धनानि जायन्त इत्यर्थः। एवं नगरनिर्धमनादिदिश आगतस्य वातस्य दुरभिताऽप्यूह्या। - आर्षोपनिषद् - तद्वद्भावुकद्रव्यस्य जीवस्य गुणदोषभावो द्रष्टव्यः, उक्तं च - जीवो अणाइनिहणो तब्भावणभाविओ य संसारे। खिप्पं सो भाविज्जइ मेलणदोसाणुभावेणं।। अंबस्स य निम्बस्स य दुण्डंपि समागयाई मूलाई। संसग्गीइ विणट्ठो अंबो निबत्तणं पत्तो - इति (आवश्यकनियुक्तौ ११२९-११३०)। निदर्शनान्तरमाह - संपुण्णवाहिणीओ वि आवन्ना लवणोदधिं। पप्पा खिप्पं तु सव्वा वि पावंति लवणत्तणं।। ॥३३-१५॥ सम्पूर्णवाहिन्योऽपि - विमलमधुरसलिलपरिपूर्णतटिन्योऽपि, आसतां कलुषितपानीया नद्य इत्यपिशब्दार्थः। लवणरसमुदधिम् - समुद्रम् - लवणोदधिम्, आपन्नाः, प्रतिगता मिलिता इत्यर्थः, तं सागरं प्राप्य तु क्षिप्रम् - त्वरितम्, सर्वाः - निःशेषा अपि तास्तरङ्गिण्यः, लवणत्वं प्राप्नुवन्ति, स्वसंसर्गाधिकरणदोषानुषङ्गेन तद्दोषदुष्टा भवन्तीत्यर्थः, अन्वाहजह नाम महुरसलिलं सायरसलिलं कमेण संपत्तं। पावेइ लोणभावं मेलणदोसाणुभावेणं।। एवं खु सीलवंतो असीलवंतेहिं मीलिओ संतो। पावइ गुणपरिहाणि मेलणदोसाणुभावेणं।। खणमवि न खमं काउं अणाययणसेवणं सुविहियाणं। हंदि समुद्दमइगयं उदयं लवणत्तणमुवेइ - इति (आवश्यकनियुक्तो ११३३-११३५)। दृष्टान्तान्तरमाह समस्सिता गिरिं मेरूं णाणावण्णा वि पक्खिणो। सव्वे हेमप्पभा होंति तस्स सेलस्स सो गुणो।। ॥३३-१६॥

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132