________________
-१२१
१२२
Re-ऋषिभाषितानि - त्यागिनम्, एवं सम्यग्दर्शनज्ञानचारित्रविभूषिततया स्वपरयोर्हितहेतुत्वेनोभयलोकसुखावहं, तं मित्रं - सद्गुरुं, सुष्ठु सम्यग्रीत्या, यथा दरिद्रादिरीश्वरादि सेवते तथा प्रयत्नपुरस्सरमित्यर्थः सेवेत - पर्युपासेत, तत्र बहुमानादियुक्ततया तदाज्ञाचरो भवेदिति यावत्, उक्तं च - सेवेज्ज धम्ममित्ते विहाणेण, अंधो विय अणुकड्ढगे, वाहिओ विव वेज्जे, दरिदो विय ईसरे, भीओ विव महानायगे। न इओ सुंदरतरमन्नं ति बहुमाणजुत्ते सिया, आणाकंखी, आणापडिच्छगे, आणा अविराहगे, आणानिप्फायगे त्ति - इति (पञ्चसूत्रे २)।
ननु निरर्थकोऽयमुपदेशः, मित्रामित्रयोरकिञ्चित्करत्वात्। एतच्च मणिकाचज्ञातेनैव सिद्धम्, यदाह- एकत्र विनिवेशेऽपि काचः काचो मणिर्मणिः - इति (त्रिषष्टिशलाकापुरुषचरित्रे) चेत् ? न, मण्यादेरभावुकद्रव्येनोदाहरणवैषम्यात्, जीवस्य भावुकद्रव्यत्वात्, पवनादिवदित्याह
संसग्गितो पसूयंति दोसा वा जइ वा गुणा। वाततो मारुतस्सेव ते ते गंधा सुहावहा।।३३-१४।।
दोषा वा - कुशीलत्वादयः, यदि वा गुणाः - सुशीलत्वादयः, संसर्गतः - दुर्मित्रमित्रसंस्तवादेः, प्रसूयन्ते - प्रागसन्तोऽपि समुद्भवन्ति। वाततः कृतचन्दनवनादिसम्पर्कात् पवनतः, मारुतस्येव - अपरसमीरणस्येव, ते ते शुभावहा गन्धा भवन्ति - तादृश-तादृशमनोज्ञसुरभिहेतुकसुखनिबन्धनानि जायन्त इत्यर्थः। एवं नगरनिर्धमनादिदिश आगतस्य वातस्य दुरभिताऽप्यूह्या।
- आर्षोपनिषद् - तद्वद्भावुकद्रव्यस्य जीवस्य गुणदोषभावो द्रष्टव्यः, उक्तं च - जीवो अणाइनिहणो तब्भावणभाविओ य संसारे। खिप्पं सो भाविज्जइ मेलणदोसाणुभावेणं।। अंबस्स य निम्बस्स य दुण्डंपि समागयाई मूलाई। संसग्गीइ विणट्ठो अंबो निबत्तणं पत्तो - इति (आवश्यकनियुक्तौ ११२९-११३०)। निदर्शनान्तरमाह -
संपुण्णवाहिणीओ वि आवन्ना लवणोदधिं। पप्पा खिप्पं तु सव्वा वि पावंति लवणत्तणं।।
॥३३-१५॥ सम्पूर्णवाहिन्योऽपि - विमलमधुरसलिलपरिपूर्णतटिन्योऽपि, आसतां कलुषितपानीया नद्य इत्यपिशब्दार्थः। लवणरसमुदधिम् - समुद्रम् - लवणोदधिम्, आपन्नाः, प्रतिगता मिलिता इत्यर्थः, तं सागरं प्राप्य तु क्षिप्रम् - त्वरितम्, सर्वाः - निःशेषा अपि तास्तरङ्गिण्यः, लवणत्वं प्राप्नुवन्ति, स्वसंसर्गाधिकरणदोषानुषङ्गेन तद्दोषदुष्टा भवन्तीत्यर्थः, अन्वाहजह नाम महुरसलिलं सायरसलिलं कमेण संपत्तं। पावेइ लोणभावं मेलणदोसाणुभावेणं।। एवं खु सीलवंतो असीलवंतेहिं मीलिओ संतो। पावइ गुणपरिहाणि मेलणदोसाणुभावेणं।। खणमवि न खमं काउं अणाययणसेवणं सुविहियाणं। हंदि समुद्दमइगयं उदयं लवणत्तणमुवेइ - इति (आवश्यकनियुक्तो ११३३-११३५)। दृष्टान्तान्तरमाह
समस्सिता गिरिं मेरूं णाणावण्णा वि पक्खिणो। सव्वे हेमप्पभा होंति तस्स सेलस्स सो गुणो।।
॥३३-१६॥