________________
70 ऋषिभाषितानि
स्वतन्त्रसुखदुर्ललितः सुरेषु। वाक्यामृतं तव पुनर्विधिनोपयुज्य, शूराभिमानमवशस्य पिबन्ति मृत्योः - इति (सिद्धसेनी द्वात्रिंशिकायाम् २-४)। अत एतदेव परमार्थतोऽमृतम्, अपरत्र वाङ्मात्रत्वादिति सिद्धम् । तस्मात्
पुणं तित्थमुवागम्म पेच्चा भोज्जाहि जं फलं । सद्धम्मवारिदाणेणं खिप्पं सुज्झति माणसं । ।
११९
।।३३-११।। पुण्यम् - वक्ष्यमाणरीत्या मनोविशुद्धिहेतुत्वेन पवित्रम्, तीर्थम् संसारसागरनिस्तारकम्, एतच्च साधुजनविशेषणम्, यदाह - साधूनां दर्शनं पुण्यं, तीर्थभूता हि साधवः । तीर्थं फलति कालेन, सद्यः साधुसमागमः - इति । तदेतत् तीर्थमुपागम्य धर्मश्रोता प्रेत्य यदस्य पूर्वोक्तममृतात्मकं फलं तद् भुञ्ज्यात् ।
उक्तफलावाप्तिरपि शुभानुबन्धिपुण्यवशात्, तदपि तथाविधमनः परिणामविशुद्ध्येति धर्मश्रवणस्यैतदेवानन्तरफलत्वेन
साक्षादाह- सद्धर्म एव वारि जलम्, मलशोधनसाधर्म्यात्, तस्य दानेन - धर्मवाक्यश्रावणेनेत्याशयः, क्षिप्रम् झटिति, योग्ये श्रोतरि तत्फलोत्पत्तौ कालक्षेपायोगात्, मानसम् - अन्तःकरणम्, शुध्यति - भावमलापगमेन निर्मलीभवति । अधर्मवाक्यं तु विपरीतफलमित्याह
सब्भाववक्कविवसं सावज्जारंभकारकं ।
दुम्मित्तं तं वियाणेज्जा उभयोलोयविणासणं ।।
।।३३-१२ ।।
आर्षोपनिषद् स्वभावेन - प्रकृत्यैव, यदुत्सूत्रत्वादिदोषदुष्टं वाक्यम् - वचनम्, तद्वक्तुं विवशम् - परतन्त्रम्, अयं भावः - उत्सूत्रादेः कटुविपाकत्वेऽपि तथाविधभवितव्यतादेरसाववशतया तदेव वक्तीति । तथा सावद्यः पापसहितः, आरम्भ:- गृहनिर्वर्तनादिविषय उपक्रमः, तस्य कारकः - कारयिता, न चैतद्विषयप्रेरणमपि युज्यते, अनर्थदण्डापत्तेः, किन्त्वसौ धाष्टर्यमवलम्ब्य तमुपदिश्य कारयतीति । उपलक्षणमेतत्, तेनान्याऽप्यस्य तथाविधा स्वपरापकारकहेतुता द्रष्टव्या। तदेवमुत्सूत्रभाषणादिदोषदुष्टं तं दुर्मित्रम् दुष्टहृदं नामसुहृदम्, अभिधानमात्रेण मित्रं परमार्थशत्रुमित्यर्थः, उभयलोकयोः इहपररूपयोः, विनाशनम् - सुखलेशोच्छेदकम् विजानीयात् श्रुतप्रज्ञाचक्षुषाऽवगच्छेत्। यतः - सप्पो इक्कं
मरणं कुगुरु अणंताई देइ मरणाई। तो वरि सप्पं गहिउं मा कुगुरुसेवणं भद्द ! इति (षष्टिशतके ३७।। ) । भवति हि दुर्मित्रसेवया दौर्गत्यादिदु:खम्, उक्तं च- अमित्तो मित्तवेसेण कंठे घेत्तूण रोय । मा मित्ता सुग्गइं जासु दो वि गच्छामु दोग्गई - इति (सूत्रकृते १३- २ वृत्ती) कस्तर्हि सन्मित्रमित्यत्राह -
१२०
-
-
सम्मत्तरियं धीरं सावज्जारंभवज्जकं ।
तं मित्तं सुठु सेवेज्जा उभओलोकसुहावहं । ।
।।३३-१३।।
सम्यक्त्वम् - प्रशमादिव्यक्तीभवन् शुभात्मपरिणामः, तस्मिन् निरतम् - सततं परिणतम् । धिया सम्यग्ज्ञानपूतप्रज्ञया राजत इति धीरः, तम्। तथा सावद्यारम्भस्य वर्जकम् - त्रियोगकरणशुद्ध्या