________________
Re-ऋषिभाषितानि
-११७ कुर्यादित्याह
साहूहिं संगमं कुज्जा साधूहिं चेव संथवं। धम्माधम्मं च साहूहिं सदा कुवेज्ज पंडिए।।३३-८।।
साधुभिः - सुविहिताचरणशालिभिः, सह सङ्गमम् - पार्श्वसेवाम्, कुर्यात् - विदधीत, साधुभिरेव संस्तवम् - परिचर्यालापसंलापादिम्, कुर्यात्, पण्डितः - आत्महिततत्वानुसारिणीप्रतिभापूतात्मा, सदाऽपि साधुभिरेव सह धर्माधर्मम् - धर्माधर्मगोचरां विचारणाम्, चः - समुच्चये, कुर्यात्। यतः -
इहेव कित्तिं पाउणति पेच्चा गच्छइ सोगति। तम्हा साधूहिं संसग्गिं सदा कुविज्ज पंडिए ।।
॥३३-९॥ इहैव - इह लोक एव, कीर्तिम् - सज्जनसंसर्गसञ्जनितजनश्लाघाम्, प्राप्नोति। प्रेत्य च सुगतिम् - सुदेवसुमनुष्यलक्षणाम्, गच्छति - सत्संसर्गानुभावानुसङ्क्रान्तसदाचारसम्बद्धसत्कर्मविपाकेनानुयाति। अत्रानुयातीति तेषामेव सतां सद्गतिं गच्छतामनुगमनं करोतीत्यर्थः, बलदेवमुनिसान्निध्यसेवकहरिणवत्। तस्मात् पण्डितः सदाऽपि साधुभिरेव संसर्ग कुर्यात्। उक्तं च - परिचरितव्याः सन्तो यद्यपि न कथयन्ति कञ्चिदुपदेशम्। यास्तेषां स्वैरकथास्ता एव भवन्ति शास्त्राणि - इति। एवं हि कदाचिक्लिष्टकर्मोदयात्सम्भाव्यमानात्पतनादपि रक्षणं भवति, तदाह - यद्यपि निर्गतभावस्तथाऽप्यसौ रक्ष्यते सद्भिरन्यैः। वेणुर्विलूनमूलोऽपि वंशगहने महीं नैति - इति (धर्मबिन्दुवृत्ता
११८
- आर्षोपनिषद् - वुद्धरणम्)। एवं च स्फुट एव दुर्गतिनिरोधः, सद्गतिध्रौव्यं च, विपर्ययश्च विपर्यये, अन्वाह- यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि। अथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि - इति (धर्मबिन्दुवृत्तावुद्धरणम्)।
इतश्च सत्सङ्ग आसेव्यः, धर्मश्रवणस्यान्यथानुपपत्तेः, तस्य च महाफलत्वात्, यतः -
खइणं पमाणं वत्तं च देज्जा अव्वीति यो धणं। सद्धम्मवक्कदाणं तु अक्खयं अमतं व तं।।३३-१०।।
यो धनं दद्यात्, स क्षयिनम् - क्षयशीलं पदार्थम्, प्रमाणम् - नियतप्रमाणोपेतत्वेन परिमितम्, वार्त्तम् - असारम्, राजदायादादिसाधारणत्वात्, सपदि ज्वलनादिनाश्यत्वात्, प्रायो ममत्वमात्रफलत्वात्, सुखानुदान एकान्तिकसामर्थ्यविरहितत्वाच्च। अर्वागेवैति - अनुयातीति - अर्वागेति - प्राकृतत्वात् - अव्वीति - रूपसिद्धिः, मरणकाले त्ववश्यमेव वियुज्यत इति हृदयम्, चः - विशेषणसमुच्चये। एतादृशमेव वस्तु धनदाता ददातीत्यत्र न कोऽप्यतिशयः। कुत्रस्ततिशय इत्याह- यस्तुः- पुनः सद्धर्मवाक्यं ददाति - सद्धर्मं श्रावयति तेन दत्तं सद्धर्मवाक्यलक्षणं दानमक्षयम् - तदवाप्य फलस्याक्षयत्वात्, अत एव नैतत्परिमितम्। नापि वार्तम्, अनपहार्यत्वात्, सद्यः सानुबन्धशर्मबीजत्वाच्च। सङ्खपत आह - यद्वा तदमृतमेव, सुधासरूपस्य जिनवचनस्यामरत्वप्रदानप्रत्यलत्वात्, आह च- पीतामृतेष्वपि महेन्द्रपुरःसरेषु, मृत्युः १. ग - अच्चाति । घ.च.छत - अज्जति । झ - अज्जेति । थ.ज - अव्वीति ।