________________
- ऋषिभाषितानि
-११५ दुभासियाए भासाए दुक्कडेण य कम्मणा। 'जावखेव महंतं तु उसु वाया व सिंचति।।३३-४।।
दुर्भाषितया भाषया दुष्कृतेन च कर्मणा, जापः - देवताधाराध्यस्य सततं संस्मरणफलम्, हेतौ फलोपचारात्, जापानुभावाभिमतवस्तु - इति यावत्, तस्य क्षेपः - न्यासः, स्वस्मिन् प्रतिष्ठा, फलावाप्तिरिति यावत्, तम्, लुप्तद्वितीयान्तो निर्देशः प्राकृतत्वात्। महत् - काङ्क्षत्, चित्तमिति गम्यते। ऊषम् - क्षारभूमिम्, वाचा - वाङ्मात्रेण सिञ्चतीव - शस्याशया सेकाधिकरणीकुरुत इव। अत्र प्रथमं तु तावदुषपृथिव्यां सिञ्चनमेव निष्फलम्, तदपि चेद्वाङ्मात्रेण, तदा तु किं वाच्यमित्यन्तनिष्फलत्वसाधर्म्यान्निदर्शनौचित्यम्। तद्वद्दष्टवाक्कर्मकलङ्कितस्य यत्किञ्चिदाराधनाप्रयासोऽप्यत्यन्तं विफल एवेति भावः। इतरगोचरमाह -
सुभासियाए भासाए सुकडेण य कम्मुणा। पज्जपणे कालावासी वा जसं तु अभिगच्छति।।
॥३३-५।। सुभाषितया भाषया, सुकृतेन च कर्मणा, कालवर्षी पर्जन्य इव योग्यकाले वर्षाकारी जलधर इव सफलतां लभते, यद्यत्कृत्यं कुरुते तत्तत् सफलीभवति, अत एव यशस्तु-कीर्तिमेव, अभिगच्छति - प्राप्नोति - अपयशोमूलवैफल्यविरहात्, वागादि१. ख.ट.थ - जावखेवमहतं । ग - जोगक्खेम बहंतं । घत - जोगकखेमं वहन्तं। च - जोगक्खेमं वहतं । न.ध.ण.ज.ठढ़ - जोबखेवमहतं। प जोपखेवमहंतं। फ - जोवखेबमहतं ।
आर्षोपनिषद् - दोषविरहेण लोकप्रियीभवनाच्च। अतो नित्यमेव पण्डितजनैरेव संसर्गः करणीयः, महागुणस्वरूपसुभाषितादिशालित्वात्तेषाम्, एतदेव व्यतिरेकेणाह
णेव बालेहिं संसग्गिं व बालेहिं संथवं। धम्माधम्मं च बालेहिं णेव कुज्जा कदायि वि।।
॥३३-६॥ बालैः - उक्तलक्षणैः सह संसर्गम् - पार्श्वसेवादि, कदापि नैव कुर्यात्। बालैः सह संस्तवमपि परिचय - आलापप्रमुखमपि नैव कुर्यात्। तथा धर्माधर्मम् - पदैकदेशे पदसमुदायोपचारात् धर्माधर्मविषया शास्त्रवार्तेत्यर्थः, तं च बालैः सह कदापि नैव कुर्यात्। यतो कृतबालसंसर्गः -
इहेवाकित्ति पावेहिं पेच्चा गच्छेड़ दोग्गति। तम्हा बालेहिं संसग्गिं णेव कुज्जा कदायि वि।।
॥३३-७।। इहैव - इह भव एव, अकीर्तिम् - अयमप्येतादृश एवेत्याद्याकारकमपयशः, प्राप्नोति- स्वविषयतयाऽधिगच्छति, चौरग्रामे निवासकारिसज्जनवत्। उक्तं च- पक्कणकुले वसंतो सउणीपारोऽवि गरहिओ होइ। इय गरहिया सुविहिया मज्झि वसंता कुसीलाणं - इति (आवश्यकनिर्युक्तौ - ११२६)। प्रेत्य पुनः दुर्गतिम् - नरकादिलक्षणाम्, गच्छति - बालसंसर्गानुभावानुसङ्क्रान्तदोषसन्दोहप्रयुक्तक्लिष्टकर्मविपाकेनानुयाति। तस्मात् - उक्तापायभयात्, बालैः सह कदापि नैव संसर्गं कुर्यात्। कैस्तर्हि