________________
Re-ऋषिभाषितानि -
।। अथ त्रयस्त्रिंशत्तमोऽध्यायः।। अनन्तराध्ययने दिव्यकृषिरभिहिता, तस्यां च स्तेनस्थानीया बालजीवा विघ्ना भवन्ति, सहायाश्च सज्जनस्थानीयाः पण्डितजीवाः, अतस्तेषां परिहारपरिचर्यासिद्धयेऽत्र तान् विवेचयन्नाह - दोहिं ठाणेहिं बालं जाणेज्जा,
दोहिं ठाणेहिं पंडितं जाणेज्जासम्मा-मिच्छापओतेणं,
कम्मुणा भासणेण य।।३३-१।। द्वाभ्यां स्थानाभ्यां बालं जानीयात्- वक्ष्यमाणलक्षणद्वयेनायं बाल इति लक्ष्यपरिज्ञानं कुर्यादित्यर्थः। एवं द्वाभ्यां स्थानाभ्यां पण्डितं जानीयात्। स्थान एव स्पष्टमाचष्टे - सम्यग्मिथ्याप्रयोगेण कर्मणा भाषणेन च। एतदुक्तं भवति - सम्यक् प्रयोगो यस्य तत् - सम्यक्प्रयोगम् - समीचीनतया प्रयुक्तमित्यर्थः, स्वरूपतो सुन्दरस्याऽप्यसम्यक् प्रयुक्तस्यासुन्दरत्वापत्तेरित्थमभिधानमिति ध्येयम्। एवं मिथ्याप्रयोगमित्यत्रापि ज्ञातव्यम्। प्रत्येक कर्मविशेषणमिदम्, तेन कर्मणा - कृत्येन भाषणेन - वाचा च।
ननु दुष्टादुष्टमनोऽपि तल्लिङ्गं भवतीति न्यूनतेति चेत् ? न, तस्याग्दृिशामगोचरत्वेन प्रकृतेऽनुपयोगात्, अर्वाग्दृश एवोद्दिश्य प्रस्तुतोपदेशस्योपदिष्टत्वाच्च। साम्प्रतमेत एव स्थाने व्यासत आह
दुभासियाए भासाए दुक्कडेण य कम्मुणा। बालमेतं वियाणेज्जा कज्जाकज्जविणिच्छए।।
॥३३-२॥
११४
- आर्षोपनिषद् - दुर्भाषितया भाषया, एतच्चाहिताप्रियत्वादिना स्वरूपतो दुष्टत्वात्, असम्यक् प्रयुक्तत्वाद्वा, दुष्कृतेन च कर्मणा, उक्तहेतुद्वयेनैवात्रापि दुष्टता प्रत्येया। एतत् कार्यम् - करणीयम् - कर्तुमुचितमिति यावत्, इतरं त्वकार्यम्, उक्तविपरीतम्, एवं कार्याकार्ययोर्विशेषेण निश्चयो यस्यासौ कार्याकार्यविनिश्चयः, स एतम् - दुर्वाक्कर्मविशिष्टं यं कञ्चित्, बालम् - बालवदज्ञतया हितेतरविवेकशून्यम्, विशेषेण - अव्यभिचारिलक्षणलक्षिततया, जानीयात् - अवगच्छेत्। यद्वा कार्याकार्यविनिश्चयविधावयं बालः - अज्ञः इत्येनं विजानीयादित्यर्थः। पण्डितपरिज्ञानोपायमाह
सुभासियाए भासाए सुकडेण य कम्मुणा। पंडितं तं वियाणेज्जा धम्माधम्मविणिच्छये।।
॥३३-३।। सुभाषितया - हितमितप्रियलक्षणया शोभनया भाषितया, भाषया - वाचा, सुकृतेन - स्वपरहितानुबन्धितया विहितेन, कर्मणा - कृत्येन, चः - समुच्चये। अयं धर्मोऽधर्मोऽयमिति विशेषेण - अविपर्यस्तरूपेण निश्चयो यस्य स धर्माधर्मविनिश्चयः, तम् - सद्वचनादिविभूषितम्, पण्डितम् - तत्त्वानुगामिनीप्रज्ञासम्पन्नत्वेनात्मपरहितनिबन्धनम्, विजानीयात् परिज्ञानगोचरीकुर्यात्।
यद्वाऽयं धर्माधर्मविनिश्चये पण्डितः - विचक्षणः, इति तं विजानीयादित्यर्थः। दुर्भाषितादीनेवोपमया स्पष्टयति -