________________
• ऋषिभाषितानि
- १२३
सुगमम्। उक्तं च - उत्तमगुणसंसग्गि, सीलदरिद्दं पि कुणइ सील । जह मेरुगिरिविलग्गं तणं वि कणगत्तणमुवेइ - इति । अत्र शीलगुणानुसङ्क्रमोदाहरणमेव दाढर्यार्थमुपन्यस्यति -
कल्लाणमित्तसंसग्गिं संजयो मिहिलाहिवो ।
फीतं महितलं भोच्चा तम्मूलाकं दिवं गतो ।।
।।३३-१७।।
मिथिलाधिपः मिथिलानगरीस्वामी, संयतः स्वनामख्यातो राजा, कल्याणप्रयोजकं मित्रम् - कल्याणमित्रम्, तस्य संसर्गं कृत्वा, प्रागवस्थायां स्फीतम् - विस्तीर्णम्, महीतलम् - वसुन्धरातलम्, भुक्त्वा, स्वकीयराज्यलक्ष्मीतयोपभोगं कृत्वा, तन्मूलकम् सः - कल्याणमित्रसंसर्गः, यथा मूलम् - निबन्धनं स्यात्तथा, दिवम् - स्वर्गम्, गतः प्राप्तः, सत्सङ्गानुभावानुषक्तशीलादिगुणपरिणतिप्रभावेन सुरालयमाससादेत्याशयः ।
-
एष च राजा तृतीयाङ्गोदितः श्रीवीरस्वामिप्रव्राजितनृपाष्टकमध्यगतः सम्भाव्यते, यथोक्तम् समणेणं भगवता महावीरेण अट्ठ रायाणो मुंडे भवेत्ता अगारातो अनगारितं पव्वाविता, तं० - वीरंगय वीरजये संजय - एणिज्जते य रायरिसी । सेयसिवे उदायणे (तह संखे कासिवद्धणे ) - इति (स्थानाङ्गे ८- ७३२) । क एवमाहेत्यत्र प्रतिविधत्ते -
अरुणेण महासालपुत्त्रेण अरहता इसिणा बुझतं । अरुणेन महासालपुत्रेणार्हतर्षिणोदितम्। उपसंहरति सम्मत्तं च अहिंसं च सम्मं णच्चा जितिंदिए ।
-
१२४
आर्षोपनिषद्
कल्लाणमित्तसंसग्गिं सदा कुव्वेज्ज पंडिते ।।
।।३३-१८।।
-
तस्मात् जितेन्द्रियः अमित्रसंस्तवादौ प्रतिषिद्धेन्द्रियः, सम्यक्त्वम् - सम्यग्दर्शनम्, एतेन सम्यग्ज्ञानग्रहः, सहभावित्वात् । अहिंसाम् – सम्यक्चारित्रम्, चौ- समुच्चये । एतत्रितयमेव सम्यक् समीचीनमिति ज्ञात्वा प्रवचनेन प्रतिपद्य पण्डितः - मित्रामित्रपरिज्ञानपटुमतिः, सदा - नित्यम्, कल्याणमित्रसंसर्ग कुर्यात्। तत एव सद्दर्शनादिसम्प्राप्तेस्तद्विशुद्धेश्च सम्भवात्। तदेतत् कल्याणमित्रसंसर्गस्यानन्तरं फलम्, साम्प्रतं परम्परफलं साक्षादेवाभिदधन्नाह -
-
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ।। त्ति बेमि । । एवम् नित्यं कल्याणमित्रसंसर्गात्, सः - - तत्संसर्गकृत्, सिद्ध इत्यादि प्राग्वत् । इति त्रयस्त्रिंशत्तमेऽरुणीयाध्ययन आर्षोपनिषद् ।
-
।। अथ चतुस्त्रिंशत्तमोऽध्यायः ।।
अनन्तराध्ययने बालस्थानीयामित्रपरिहार उपदिष्टः, तं परिहरतोऽपि कदाचिद् भवितव्यतादियोगात्ततः परीषहादिसम्भवः स्यात्, अतस्तत्कालोचितं कर्तव्यमाह
पंचहिं ठाणेहिं पंडिते बालेणं परीसहोवसग्गे उदीरिज्जमाणे सम्मं सहेज्जा खमेज्जा तितिक्खेज्जा अधियासेज्जा - बाले खलु पंडितं परोक्खं फरुसं