________________
Re-ऋषिभाषितानि -
-१२५ वदेज्जा। तं पंडिते बहुमण्णेज्जा - "दितु मे एस बाले परोक्खं फरुसं वदति, णो पच्चक्खं, मुक्खसभावा हि बाला, ण किंचि बालेहिंतो ण विज्जति।" तं पंडिते सम्म सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा ।
पञ्चभिः स्थानैः - सहनशीलताद्यालम्बनैः, पण्डितः - वक्ष्यमाणस्थानविशारदः, बालः - तुमंसि नाम सच्चेव जं हंतव्वं ति मन्नसि - इत्यादिसिद्धान्तानभिज्ञः, तेन, उदीर्यमाणान् - बलादप्युदयं प्राप्यमाणान्, परीषहोपसर्गान् सम्यक् - परमानन्दरसमनुपिबन्निव, सहेत, भयाभावेनाविचलनात् (स्थानाङ्गे५-१-४४३।।)। क्षमेत, क्षान्त्या। तितिक्षेत, अदीनतया। अध्यासीत - परीषहादावेवाधिक्येनासीत, न चलेदित्यर्थः।
अत्राऽऽद्यं स्थानमाह - बालः खलु पण्डितं परोक्षम् - तस्याशृण्वतः परुषम् - जात्युद्घटनादि कठोरं वचनं वदेत्। तत् पण्डितो बहुमन्येत, किं सम्प्रधार्येत्याह- दिष्ट्या एष बालो मे - मह्यम्, मद्विषयमिति यावत् परोक्षं परुषं वदति। न प्रत्यक्षम्। यद्वा दिढे - इति द्विष्टः, मद्विषयद्वेषसहित इत्यर्थः, शेष प्राग्वत्। हि - यस्मात्, मूर्ख इव स्वभावः - प्रकृतिः, येषां ते मूर्खस्वभावा बालाः, न हि ते विदन्ति यदन्यस्मै परुषवदने ममैव परुषफलं भविष्यन्तीत्यज्ञा एत इति भावः। तस्मान् न किञ्चिद्
१२६
- आर्षोपनिषद् - बालेभ्यो न विद्यते, नैषोऽपायो यो बालैः परस्य न क्रियते। उक्तं च - नास्ति क्लिष्टसत्त्वानामकृत्य-मिति। सर्वमपि यावदतिजघन्यमपि तैः क्रियमाणं सम्भवत्येवेत्यहं तु केवलं परोक्षमाक्रुष्टः, न तु प्रत्यक्षं परुषं भाषितोऽपीति किं ममैतन्मात्रेण, अतिसुसहमेवैतदिति विभाव्य तत् पण्डित इत्यादि प्राग्वत्। द्वितीयं स्थानमाह -
बाले खलु पंडितं पच्चक्खमेव फरुसं वदेज्जा। तं पंडिए बहुमण्णिज्जा - "दिटे मे एस बाले पच्चक्खं फरुसं वदति, णो दंडेण वा लट्ठिणा वा ले?णा वा मुट्ठिणा वा बाले कवालेण वा अभिहणति तज्जेति तालेति परितालेति परितावेति उद्दवेति। मुक्खसभावा हि बाला, ण किंचि बालेहितो ण विज्जति।” तं पंडिते सम्म सहेज्जा खमेज्जा तितिक्खेज्जा अहियासेज्जा २।
पूर्वानुसारेण नेतव्यम्। नवरम् - दिष्ट्येति सदैवेन न दण्डेन वा लष्ट्या वा लेष्टुना वा मुष्ट्या वा बालः कपालेन वाऽभिहन्ति - आभिमुख्येन प्रद्वेषजनितेन घातं कुरुते, तर्जयति - शिरोऽगुल्यादिस्फोरणतो ज्ञास्यसि रे जाल्म ! इत्यादि भणति, १. घ.च.झ.त - ट्ठिा मे। ख.ग.ज.ठ.ढण.थ.ध.प.फ - दिढे मे। २. ख.ज.ठ.थ. - णो दंडेण वा लहिणा वा मुट्ठिणा वालो कवालेण वा। ग - णो दंडे बा लट्ठिणा वा (लेणा वा) मुट्टिणा वा बाले कवालेण बा। घ.च.झ - णो दण्डेण वा लट्ठिणा वा लेखणा वा मुट्टिणा वा बाले कवालेण वा। ध.प.फ - णओ डंडेण वा लट्ठिणा वा मुट्टिणा वा बाले कवालेण वा।
१. ख.ज.ट.थ.प.फ.ध - दि8 एस समे बाले । ग.द - दिढे मे एस वाले । घ.च.छ.झ.त - दिट्ठा मे एस बाले । ढ - दिढे एस मे बाले ।