Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 66
________________ - ऋषिभाषितानि -११५ दुभासियाए भासाए दुक्कडेण य कम्मणा। 'जावखेव महंतं तु उसु वाया व सिंचति।।३३-४।। दुर्भाषितया भाषया दुष्कृतेन च कर्मणा, जापः - देवताधाराध्यस्य सततं संस्मरणफलम्, हेतौ फलोपचारात्, जापानुभावाभिमतवस्तु - इति यावत्, तस्य क्षेपः - न्यासः, स्वस्मिन् प्रतिष्ठा, फलावाप्तिरिति यावत्, तम्, लुप्तद्वितीयान्तो निर्देशः प्राकृतत्वात्। महत् - काङ्क्षत्, चित्तमिति गम्यते। ऊषम् - क्षारभूमिम्, वाचा - वाङ्मात्रेण सिञ्चतीव - शस्याशया सेकाधिकरणीकुरुत इव। अत्र प्रथमं तु तावदुषपृथिव्यां सिञ्चनमेव निष्फलम्, तदपि चेद्वाङ्मात्रेण, तदा तु किं वाच्यमित्यन्तनिष्फलत्वसाधर्म्यान्निदर्शनौचित्यम्। तद्वद्दष्टवाक्कर्मकलङ्कितस्य यत्किञ्चिदाराधनाप्रयासोऽप्यत्यन्तं विफल एवेति भावः। इतरगोचरमाह - सुभासियाए भासाए सुकडेण य कम्मुणा। पज्जपणे कालावासी वा जसं तु अभिगच्छति।। ॥३३-५।। सुभाषितया भाषया, सुकृतेन च कर्मणा, कालवर्षी पर्जन्य इव योग्यकाले वर्षाकारी जलधर इव सफलतां लभते, यद्यत्कृत्यं कुरुते तत्तत् सफलीभवति, अत एव यशस्तु-कीर्तिमेव, अभिगच्छति - प्राप्नोति - अपयशोमूलवैफल्यविरहात्, वागादि१. ख.ट.थ - जावखेवमहतं । ग - जोगक्खेम बहंतं । घत - जोगकखेमं वहन्तं। च - जोगक्खेमं वहतं । न.ध.ण.ज.ठढ़ - जोबखेवमहतं। प जोपखेवमहंतं। फ - जोवखेबमहतं । आर्षोपनिषद् - दोषविरहेण लोकप्रियीभवनाच्च। अतो नित्यमेव पण्डितजनैरेव संसर्गः करणीयः, महागुणस्वरूपसुभाषितादिशालित्वात्तेषाम्, एतदेव व्यतिरेकेणाह णेव बालेहिं संसग्गिं व बालेहिं संथवं। धम्माधम्मं च बालेहिं णेव कुज्जा कदायि वि।। ॥३३-६॥ बालैः - उक्तलक्षणैः सह संसर्गम् - पार्श्वसेवादि, कदापि नैव कुर्यात्। बालैः सह संस्तवमपि परिचय - आलापप्रमुखमपि नैव कुर्यात्। तथा धर्माधर्मम् - पदैकदेशे पदसमुदायोपचारात् धर्माधर्मविषया शास्त्रवार्तेत्यर्थः, तं च बालैः सह कदापि नैव कुर्यात्। यतो कृतबालसंसर्गः - इहेवाकित्ति पावेहिं पेच्चा गच्छेड़ दोग्गति। तम्हा बालेहिं संसग्गिं णेव कुज्जा कदायि वि।। ॥३३-७।। इहैव - इह भव एव, अकीर्तिम् - अयमप्येतादृश एवेत्याद्याकारकमपयशः, प्राप्नोति- स्वविषयतयाऽधिगच्छति, चौरग्रामे निवासकारिसज्जनवत्। उक्तं च- पक्कणकुले वसंतो सउणीपारोऽवि गरहिओ होइ। इय गरहिया सुविहिया मज्झि वसंता कुसीलाणं - इति (आवश्यकनिर्युक्तौ - ११२६)। प्रेत्य पुनः दुर्गतिम् - नरकादिलक्षणाम्, गच्छति - बालसंसर्गानुभावानुसङ्क्रान्तदोषसन्दोहप्रयुक्तक्लिष्टकर्मविपाकेनानुयाति। तस्मात् - उक्तापायभयात्, बालैः सह कदापि नैव संसर्गं कुर्यात्। कैस्तर्हि

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132