Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 61
________________ १०५ Re-ऋषिभाषितानि इयि गती १०। गतिस्वरूपमभिधत्ते - जीवा एव गमनपरिणताः, पुद्गला एव गमनपरिणताः, ततो व्यतिरिक्ताया गतेरनुपलम्भात्, एतेन द्रव्यकर्मणोरेकान्तभेदो निरस्तः (६)। भेदमाह - द्विविधा गतिः प्रयोगेण निर्वृता गतिः प्रयोगगतिः - यथा चापादिप्रयुक्ता बाणादिगतिः, विस्रसागतिश्च - स्वभावसम्पन्ना गतिः, यथा परमाणोर्गतिः (७)। गतिस्वामिनमाह- जीवानामेव पुद्गलानामेव, आकाशादीनां गतिविरहादेवकारेण तद्व्यवच्छेदः (८)। भावमाह - औदयिकपारिणामिको गतिभावः, तत्र जीवेष्वौदयिको गतिभावः, कर्मनिवृतत्वात्, पुद्गलेषु तु पारिणामिकः, विस्रसादिलक्षण - स्वभावाहितत्वात्। यद्वोभयमप्युभयत्र यथानयमनुयोज्यम्, यथा कार्मणादिशरीरलक्षणपुद्गलानुविद्धत्वाज्जीवस्य पुद्गलेष्वप्यौदयिको गतिभावः, यद्वाऽचित्तपुद्गलानामपि जीवानुग्रहोपघातनिबन्धनगतिदर्शनात्तस्या अपि तत्तच्छुभाशुभकर्महेतुकत्वेनौदयिकभावोऽविरुद्धः। एवं जीवानामप्यशेषकर्मविनिर्मुक्तानामुर्ध्वगतिः पारिणामिकभाव इति प्रतिपत्तव्यम्, तत्र कर्मोदयस्य हेतुत्वेन वक्तुमशक्यत्वात्, न चास्य पारिणामिकत्वेऽभ्युपगम्यमाने सदा तद्भावप्रसङ्ग इति वाच्यम्, तत्स्वभावसद्भावेऽपि प्रतिबन्धकेन कार्योत्पत्तिप्रतिरोधात्, न चैतावताऽस्य स्वभावविगम इति भावनीयम्। अन्यथा तु मणिप्रतिबद्धदाहशक्तेवढेरपि दाहकस्वरूपविगमप्रसङ्गः । १०६ - आर्षोपनिषद् - प्रतिबन्धकौ च प्रकृते कर्मप्रयुक्तप्रतिघाताभावो लोकान्तात् परं धर्मास्तिकायाभावश्चेति सर्वमवदातम् (९)। व्युत्पत्तिमाह - गम्यमानेति गतिरिति (१०)। गत्यादिवक्तव्यतामाह - उडुंगामी जीवा अधेगामी पोग्गला, पावकम्मकडे णं जीवाणं परिणामे, पावकम्मकडे णं पुग्गलाणं। ण कयाति पया अदुक्खं पकासीति। अत्तकडा जीवा किच्चा किच्चा वेदेति, तं जहापाणातिवाएणं जाव परिग्गहेणं। एस खलु असंबुद्धे असंवुडकम्मते, चाउज्जामे णियंठे अट्ठविहं कम्मगंठिं पगरेति, से य चउहिं ठाणेहिं विवागमागच्छति, तं जहाणेरइएहिं तिरिक्खजोणिएहिं मणुस्सेहिं देवेहिं। उर्ध्वगामिनो जीवाः, अधोगामिनश्च पुद्गलाः, तथास्वभावात्। ननु कथं तर्हि विपरीतगतिपरिणामदर्शनमिति चेत् ? अत्राह- पापकर्मकृतो जीवानां परिणामः। अयं भावः, या जीवस्याधस्तिर्यगादिविचित्रगतिरुपलभ्यते सा गत्यादिनामकर्मविहितो जीवपरिणामः, यद्वा यद्यज्जीवस्यौपाधिकमौदयिक रूपं दृश्यते तत्तत् सर्वमपि पापकर्मनिर्वर्तितो जीवपरिणामः। न च देवादि-पर्यायस्य पापकर्मनिवर्तितत्वाभावाद्व्यभिचार इति वाच्यम्, सर्वस्यापि कर्मणो मुक्तिप्रतिबन्धकतया कथञ्चित्पापरूपत्वा-विरोधात्। पुद्गलपरिणाममाह- पापकर्मकृतः पुद्गलानां परिणामः।

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132