Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
70 ऋषिभाषितानि
- १०३
अदत्तादानेन, एवं यावन्मिथ्यादर्शनशल्येन पापकर्म कृत्वा तद्विपाककाले जीवा असातरूपां वेदनां वेदयन्ति ।
द्वितीयामाह- प्राणातिपातविरमणेन यावन्मिथ्यादर्शनविरमणेन, किन्तुः - पूर्वस्माद्भिन्नपक्षद्योतकः, जीवाः सातरूपां वेदनां वेदयन्ति । एवं यः कृतप्राणातिपातविरमणः, स यस्य - कृत्स्नकर्मसमुच्छेदलक्षणस्य, अर्थाय - उक्तसमुच्छेदनिष्पत्त्यै पश्यति अपेक्षते समीहत इति यावत्, समीहामेव कण्ठत आह- सम्यक् - एकान्तिकतया, अति - आत्यन्तिकरूपेण छेत्स्यते मे कर्मबन्धनमिति ।
णिहेति
सोऽसौ सदुपायप्रवृत्त्या, अर्थ: - कृत्स्नकर्मसमुच्छेदलक्षणः, आ - प्रवचनप्रतिपादितेनाभिविधिना, समुच्छिअ इति देश्यशब्दस्तोषितपर्यायः, तस्मादर्थ आतोषितः परिपूरितो येन सः - अर्थासमुच्छिः, क्तान्तपरनिपातः प्राकृतत्वात्, कृतकर्मसमतिच्छेद इति समासार्थः, अत एव निष्ठितकरणीयः कृतकृत्यः, शान्ति : - मोक्ष:, संसारः - भवः, तयोर्मार्गान् साधनान् प्रति समचित्तः, उभयत्र स्पृहाविगमात्, तदाह- मोक्षे भवे च सर्वत्र निःस्पृहो मुनिः सत्तमः - इति ।
अम्मडस्तत्काले प्रसिद्धः कश्चिदन्तकृन्महात्मा सम्भाव्यते, स यस्याऽऽलम्बनीयतयाऽऽदिरसौ अम्मडादिः । निर्ग्रन्थ:अष्टविधकर्मग्रन्थिविनिर्मुक्तः, निरुद्धप्रपञ्चः - प्रतिषिद्धचतुरशीतियोनिलक्षभीमभवग्रहणः, अत एव व्युच्छिन्नसंसार:
१. आचाराङ्गे । ।१.२.४.४ ।। सूत्रकृताङ्गे ।। १.१.१ ।। स्थानाङ्गे । । ८ । ।
-
-
-
आर्षोपनिषद्
एकान्तिकात्यन्तिकतया क्षीणसंसृतिः, यतः, व्युच्छिन्नं संसारे वेदनीयमनुभवनीयं कर्म यस्य सः व्युच्छिन्नसंसारवेदनीयः, प्रक्षीणश्चतुर्गतिकः संसारो यत्सम्बन्धितयाऽसौ प्रक्षीणसंसार:, यतः, प्रक्षीणं संसारे वेदनीयमनुभवनीयं कर्म यस्य सः प्रक्षीणसंसारवेदनीयः । स एवम्भूतः सिद्धिसौधाध्यारूढः सन् न पुनरपि इत्यर्थम् - इत्थंभूतं जन्मादि - दुःखात्मकं संसाराख्यमर्थं हव्वमिति कदाचिद्, आगच्छति, अपुनरागतिगतत्वात्तस्य ।
उक्तनिष्ठितकरणीयादित्वमप्यस्य क्रमेण भवतीत्याह - एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ।। त्ति बेमि ।। एवमित्यादि प्राग्वत् । इत्येकत्रिंशत्तमे पार्श्वीयनामाध्ययन आर्षोपनिषद् ।
।। अथैकत्रिंशत्तमस्यैवाध्ययनस्य वाचनान्तरम् ।। गतिवागरणगंथाओं पभिति जाव समाणितं इमं अज्झयणं ताव इमो बीओ पाढो दिस्सति । तं जहा
१०४
-
गतिव्याकरणग्रन्थात् प्रथमवाचनोक्तात् प्रभृति यावत् समाप्तमिदमध्ययनं तावदयं द्वितीयः पाठो दृश्यते, तद्यथाजीवा चेव गमणपरिणता पोग्गला चेव गमणपरिणता ६ । दुविधा गती-पयोगगती य वीससागती य ७ । जीवाणं चेव पोग्गलाणं चेव ८। उदयपारिणामिए गतिभावे ९। गम्ममाणा

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132