SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 70 ऋषिभाषितानि - १०३ अदत्तादानेन, एवं यावन्मिथ्यादर्शनशल्येन पापकर्म कृत्वा तद्विपाककाले जीवा असातरूपां वेदनां वेदयन्ति । द्वितीयामाह- प्राणातिपातविरमणेन यावन्मिथ्यादर्शनविरमणेन, किन्तुः - पूर्वस्माद्भिन्नपक्षद्योतकः, जीवाः सातरूपां वेदनां वेदयन्ति । एवं यः कृतप्राणातिपातविरमणः, स यस्य - कृत्स्नकर्मसमुच्छेदलक्षणस्य, अर्थाय - उक्तसमुच्छेदनिष्पत्त्यै पश्यति अपेक्षते समीहत इति यावत्, समीहामेव कण्ठत आह- सम्यक् - एकान्तिकतया, अति - आत्यन्तिकरूपेण छेत्स्यते मे कर्मबन्धनमिति । णिहेति सोऽसौ सदुपायप्रवृत्त्या, अर्थ: - कृत्स्नकर्मसमुच्छेदलक्षणः, आ - प्रवचनप्रतिपादितेनाभिविधिना, समुच्छिअ इति देश्यशब्दस्तोषितपर्यायः, तस्मादर्थ आतोषितः परिपूरितो येन सः - अर्थासमुच्छिः, क्तान्तपरनिपातः प्राकृतत्वात्, कृतकर्मसमतिच्छेद इति समासार्थः, अत एव निष्ठितकरणीयः कृतकृत्यः, शान्ति : - मोक्ष:, संसारः - भवः, तयोर्मार्गान् साधनान् प्रति समचित्तः, उभयत्र स्पृहाविगमात्, तदाह- मोक्षे भवे च सर्वत्र निःस्पृहो मुनिः सत्तमः - इति । अम्मडस्तत्काले प्रसिद्धः कश्चिदन्तकृन्महात्मा सम्भाव्यते, स यस्याऽऽलम्बनीयतयाऽऽदिरसौ अम्मडादिः । निर्ग्रन्थ:अष्टविधकर्मग्रन्थिविनिर्मुक्तः, निरुद्धप्रपञ्चः - प्रतिषिद्धचतुरशीतियोनिलक्षभीमभवग्रहणः, अत एव व्युच्छिन्नसंसार: १. आचाराङ्गे । ।१.२.४.४ ।। सूत्रकृताङ्गे ।। १.१.१ ।। स्थानाङ्गे । । ८ । । - - - आर्षोपनिषद् एकान्तिकात्यन्तिकतया क्षीणसंसृतिः, यतः, व्युच्छिन्नं संसारे वेदनीयमनुभवनीयं कर्म यस्य सः व्युच्छिन्नसंसारवेदनीयः, प्रक्षीणश्चतुर्गतिकः संसारो यत्सम्बन्धितयाऽसौ प्रक्षीणसंसार:, यतः, प्रक्षीणं संसारे वेदनीयमनुभवनीयं कर्म यस्य सः प्रक्षीणसंसारवेदनीयः । स एवम्भूतः सिद्धिसौधाध्यारूढः सन् न पुनरपि इत्यर्थम् - इत्थंभूतं जन्मादि - दुःखात्मकं संसाराख्यमर्थं हव्वमिति कदाचिद्, आगच्छति, अपुनरागतिगतत्वात्तस्य । उक्तनिष्ठितकरणीयादित्वमप्यस्य क्रमेण भवतीत्याह - एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ।। त्ति बेमि ।। एवमित्यादि प्राग्वत् । इत्येकत्रिंशत्तमे पार्श्वीयनामाध्ययन आर्षोपनिषद् । ।। अथैकत्रिंशत्तमस्यैवाध्ययनस्य वाचनान्तरम् ।। गतिवागरणगंथाओं पभिति जाव समाणितं इमं अज्झयणं ताव इमो बीओ पाढो दिस्सति । तं जहा १०४ - गतिव्याकरणग्रन्थात् प्रथमवाचनोक्तात् प्रभृति यावत् समाप्तमिदमध्ययनं तावदयं द्वितीयः पाठो दृश्यते, तद्यथाजीवा चेव गमणपरिणता पोग्गला चेव गमणपरिणता ६ । दुविधा गती-पयोगगती य वीससागती य ७ । जीवाणं चेव पोग्गलाणं चेव ८। उदयपारिणामिए गतिभावे ९। गम्ममाणा
SR No.009617
Book TitleRushibhashitani Part 2
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages132
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size836 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy