________________
Re-ऋषिभाषितानि -
अंमडाई णियंठे णिरुद्धपवंचे वोच्छिण्णसंसारे वोच्छिण्णसंसारवेदणिज्जे पहीणसंसारे पहीणसंसारवेयणिज्जे णो पुणरवि इच्चत्थं हव्वमागच्छति।।३१-२॥
उर्ध्वगामिनो जीवाः, तथास्वभावात्, अधोगामिनः पुद्गलाः, तत एव। न च विपर्यासस्याप्युपलब्धेर्मिथ्येदमिति वाच्यम्। स्वभावगतेरधिकृतत्वात्, इतरस्य कर्मादिजत्वात्, तदाहऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः। अधो गौरवधर्माणः पुद्गला इति चोदितम्।। यथाधस्तिर्यगूधं च लोष्टवाय्वग्निवीतयः। स्वभावतः प्रवर्तन्ते तथोर्ध्वं गतिरात्मनाम्।। अतस्तु गतिवैकृत्यमेषां यदुपलभ्यते। कर्मणः प्रतिघाताच्च प्रयोगाच्च तदिष्यते।। अधस्तिर्यगथोर्ध्वं च जीवानां कर्मजा गतिः। ऊर्ध्वमेव तु तद्धर्मा भवति क्षीणकर्मणाम् - इति (तत्त्वार्थभाष्यसम्बन्धकारिकायाम् २१३/१६)।
ननु च कथं मूर्तेण कर्मणाऽमूर्तस्य जीवस्य प्रतिघात इति चेत् ? न, मदिरया ज्ञानोपघातस्य प्रसिद्धत्वात्, यदाहमुत्तेणममुत्तिमओ उवघायाऽणुग्गहा वि जुज्जंति। जह विण्णाणस्स इह मइरापाणोसहादीहिं- इति (योगशतके ५६)। युक्तं चैतत्, संसारिजीवस्य कथञ्चित् कर्मनिर्वर्तितत्वेन मूर्तरूपत्वादित्याह
१०२
आर्षोपनिषद् - कर्मप्रभवा जीवाः, भवति हि तत्तद्गतिजातिशरीरादिविशिष्टानामात्मनां कर्मप्रभवत्वमिति। पुद्गलास्तु किम्प्रभवा इत्याह - परिणामप्रभवाः पुद्गलाः, प्रयोगविस्रसान्यतरपरिणामेनैव तत्तद्वर्णादिविशिष्टतया पुद्गलानामुत्पत्तिरिति।
उक्तमेव स्पष्टयति - कर्म प्राप्य फलविपाको जीवानाम्। परिणामं प्राप्य फलविपाकः पुद्गलानाम्।
स्यादन कस्यचिदाशङ्का - यदि जीवानां फलविपाकः कर्माधीनः, पुद्गला अपि चेदपरापरपरिणामपरिणता भवन्ति, तदा कदाचित्तथाविधकर्मोदयादुत्कृष्टसुखसाधनीभूतपुद्गलसंयोगाच्चोत्कृष्टं सुखं सम्भविष्यतीत्यत्राह - इमा - प्रत्यक्षमीक्ष्यमाणा, प्रजा - जन्तुजातरूपा, कदाचिदपि नैवाव्याबाधसुखम् - दुःखसम्भिन्नत्वाद्यकलङ्कितत्वेन परमं सुखम्, एषेत - प्राप्नुयात्, कर्मणां पुद्गलानां च तत्प्रयोजकत्वासम्भवात्, शुद्धात्मस्वरूपसम्प्राप्तावेव स्वतस्तदाविर्भावभावात्, न च तत् कदाचिदपि दृश्यमानै वैः सम्प्राप्तम्, कथमिति चेत् ? अनुपायप्रवृत्तेः, तामेवाह - कषं कशायित्वा - हिंसां कृत्वा, भवति हि विशेषसमवधाने विशिष्टानामपि सामान्यार्थता, यथा तपस्तप्तम् - तपः कृतमिति, तथा प्रकृतेऽपि द्रष्टव्यम्। हिंसां कृत्वैताभिः प्रजाभिर्दुःखमेवानुभूतम्, कुतोऽव्याबाधसुखवार्तेति भावः।
यद्येवं तर्हि सुखदुःखहेतूनेव स्फुटीक्रियतामित्यत्राह- जीवा द्विविधां वेदनाम्- अनुभूतिम्, वेदयन्ति - अनुभवन्ति, सहेतुकामाद्यां वेदनामाह- प्राणातिपातेन, मृषावादेन
१. क.ग.ण - अमडाइ। ख.ज.ट.थ.ध.न.प.द - अमडाइ। घ.त. - मडाइ। झ - मडाई। च - भडाई।