________________
१०५
Re-ऋषिभाषितानि इयि गती १०।
गतिस्वरूपमभिधत्ते - जीवा एव गमनपरिणताः, पुद्गला एव गमनपरिणताः, ततो व्यतिरिक्ताया गतेरनुपलम्भात्, एतेन द्रव्यकर्मणोरेकान्तभेदो निरस्तः (६)।
भेदमाह - द्विविधा गतिः प्रयोगेण निर्वृता गतिः प्रयोगगतिः - यथा चापादिप्रयुक्ता बाणादिगतिः, विस्रसागतिश्च - स्वभावसम्पन्ना गतिः, यथा परमाणोर्गतिः (७)।
गतिस्वामिनमाह- जीवानामेव पुद्गलानामेव, आकाशादीनां गतिविरहादेवकारेण तद्व्यवच्छेदः (८)। भावमाह -
औदयिकपारिणामिको गतिभावः, तत्र जीवेष्वौदयिको गतिभावः, कर्मनिवृतत्वात्, पुद्गलेषु तु पारिणामिकः, विस्रसादिलक्षण - स्वभावाहितत्वात्। यद्वोभयमप्युभयत्र यथानयमनुयोज्यम्, यथा कार्मणादिशरीरलक्षणपुद्गलानुविद्धत्वाज्जीवस्य पुद्गलेष्वप्यौदयिको गतिभावः, यद्वाऽचित्तपुद्गलानामपि जीवानुग्रहोपघातनिबन्धनगतिदर्शनात्तस्या अपि तत्तच्छुभाशुभकर्महेतुकत्वेनौदयिकभावोऽविरुद्धः। एवं जीवानामप्यशेषकर्मविनिर्मुक्तानामुर्ध्वगतिः पारिणामिकभाव इति प्रतिपत्तव्यम्, तत्र कर्मोदयस्य हेतुत्वेन वक्तुमशक्यत्वात्, न चास्य पारिणामिकत्वेऽभ्युपगम्यमाने सदा तद्भावप्रसङ्ग इति वाच्यम्, तत्स्वभावसद्भावेऽपि प्रतिबन्धकेन कार्योत्पत्तिप्रतिरोधात्, न चैतावताऽस्य स्वभावविगम इति भावनीयम्। अन्यथा तु मणिप्रतिबद्धदाहशक्तेवढेरपि दाहकस्वरूपविगमप्रसङ्गः ।
१०६
- आर्षोपनिषद् - प्रतिबन्धकौ च प्रकृते कर्मप्रयुक्तप्रतिघाताभावो लोकान्तात् परं धर्मास्तिकायाभावश्चेति सर्वमवदातम् (९)।
व्युत्पत्तिमाह - गम्यमानेति गतिरिति (१०)। गत्यादिवक्तव्यतामाह -
उडुंगामी जीवा अधेगामी पोग्गला, पावकम्मकडे णं जीवाणं परिणामे, पावकम्मकडे णं पुग्गलाणं। ण कयाति पया अदुक्खं पकासीति। अत्तकडा जीवा किच्चा किच्चा वेदेति, तं जहापाणातिवाएणं जाव परिग्गहेणं। एस खलु असंबुद्धे असंवुडकम्मते, चाउज्जामे णियंठे अट्ठविहं कम्मगंठिं पगरेति, से य चउहिं ठाणेहिं विवागमागच्छति, तं जहाणेरइएहिं तिरिक्खजोणिएहिं मणुस्सेहिं देवेहिं।
उर्ध्वगामिनो जीवाः, अधोगामिनश्च पुद्गलाः, तथास्वभावात्। ननु कथं तर्हि विपरीतगतिपरिणामदर्शनमिति चेत् ? अत्राह- पापकर्मकृतो जीवानां परिणामः। अयं भावः, या जीवस्याधस्तिर्यगादिविचित्रगतिरुपलभ्यते सा गत्यादिनामकर्मविहितो जीवपरिणामः, यद्वा यद्यज्जीवस्यौपाधिकमौदयिक रूपं दृश्यते तत्तत् सर्वमपि पापकर्मनिर्वर्तितो जीवपरिणामः। न च देवादि-पर्यायस्य पापकर्मनिवर्तितत्वाभावाद्व्यभिचार इति वाच्यम्, सर्वस्यापि कर्मणो मुक्तिप्रतिबन्धकतया कथञ्चित्पापरूपत्वा-विरोधात्।
पुद्गलपरिणाममाह- पापकर्मकृतः पुद्गलानां परिणामः।