________________
-१०७
Re-ऋषिभाषितानि - इदमत्र तात्पर्यम्, तत्तदुपभोक्तृपापकर्मवशात्तत्तद्पुद्गलानां परिणामः सञ्जायते, यथा नरकेषु क्षुरप्रसङ्काशः पृथिवीपरिणामः। अत्राप्याक्षेपपरिहारौ पूर्ववद्वाच्यौ। ___ एवं पापकर्मोदयानुभावेन न कदाचिदपि प्रजा - जन्तुजातरूपा, अदुःखमकार्षीत्, सदैव दुःखमेवान्वभवदित्यर्थः। दुःखमपि कर्ममूलकम्, तदपि स्वयंकृतमिति स्फुटयति - जीवा आत्मकृतानि कर्माणि कृत्वा कृत्वा तत्फलं वेदयन्ति, तद्यथा - प्राणातिपातेन यावत् परिग्रहेण। पञ्चाश्रवैरित्यर्थः।
एष खलु असम्बुद्धः - मिथ्यात्वोपेततया सज्ज्ञानविवर्जितः, असंवृतकर्म - आश्रवविशेषभूतं कृत्यम्, तस्यान्तः परिणामो विपाक इति यावद् भोग्यतया यत्सम्बन्धी सः - असंवृतकर्मान्तः, चातुर्यामः - व्यवहारमात्रतः प्रतिपन्नयमचतुष्टयः, निर्ग्रन्थः - मुक्तकञ्चुकविषधरवद् बाह्यग्रन्थमात्रत्यागी, नामनिर्ग्रन्थ इत्याशयः। सोऽष्टविधम् - ज्ञानावरणीयाद्यष्टप्रकारम्, कर्म एव ग्रन्थिः - कर्मग्रन्थिः, बन्धनहेतुतासाधर्म्यात्, तं प्रकरोति अशुभाध्यवसायप्रकर्षण बधाति। स च कर्मग्रन्थिश्चतुर्भिस्थानविपाकमागच्छति, तद्यथा - नैरयिकैस्तिर्यग्योनिकैर्मनुष्यैर्देवैः, एतत्पर्यायाननुभूयमानैस्तैस्तत्कर्मविपाको वेद्यत इत्यर्थः। सैषाऽशुभकर्मवेदनवक्तव्यता, साम्प्रतं शुभकर्मवेदनविषयमाह
अत्तकडा जीवा णो परकडा किच्चा किच्चा वेदेति, तं जहा - पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं। एस खलु संबुद्धे संवुडकम्मते
१०८
- आर्षोपनिषद् - चाउज्जामे णियंठे अट्टविहं कम्मगंथिं णो पकरेति, से य चउहि, ठाणेहिं णो विपाकमागच्छति, तं जहा - णेरइएहिं तिरिक्खजोणिएहिं मणुस्सेहिं देवेहि।
जीवा आत्मकृतान्येव कर्माणि, न - नैव परकृतानि, कर्ता यः कर्मणां भोक्ता तत्फलानां स एव तु - इत्युक्तेः (स्वरूपसम्बोधने)। तानि कर्माणि कृत्वा कृत्वा - प्रतिसमयमपि बद्धवा, वेदयन्ति, विपाककाले तत्फलमनुभवन्ति। कथं बभन्तीत्याहतद्यथा - प्राणातिपातविरमणेन यावत् परिग्रहविरमणेन संवरपञ्चकेनेत्यर्थः। अत्रापि सरागसंयमेन देवायुष्यादिशुभकर्मबन्धं प्रति हेतुता द्रष्टव्या, एवं च सविशेषणस्य विधेर्विशेषणेऽनुसङ्क्रमात् प्रशस्तरागस्यैव शुभकर्मबन्धनिबन्धनत्वमापन्नम्, संवरस्य तद्धेतुत्वायोगादिति भावनीयम्।
यद्वा वीतरागसंयमविषय एवायं विधिरिति संवरलक्षणकारणस्य यद्यदक्रियाप्रमुखं फलम्, तदेव तत्कृतत्वेन कार्यतया कर्मरूपेण विवक्षितम्, संवरानुभावेन तत्तत्फलं जीवा अनुभवन्तीति। तमेव वीतरागसंयमशालिनमधिकृत्याऽऽह - एष खलु सम्बुद्धः - केवलज्ञानात्मकसम्बोध सम्पन्नः, संवृतकर्म - पञ्चाश्रवविरमणादिरूपः संयमः, तस्यान्तः - परिणामो भोक्तव्यतया यस्य सम्बन्धी सः - संवृतकर्मान्तः, तमेव विशेषयति - चातुर्यामः परमार्थतः प्रतिपन्नयमचतुष्टयः, सफलत्वेनार्थक्रियाकारित्वलक्षणसल्लक्षणयोगादस्य यमचतुष्टयस्य पारमार्थिकतेति भावनीयम्।