________________
ऋषिभाषितानि
तमेव विशेषयति - निर्ग्रन्थः - काञ्चनादिरूपबाह्यग्रन्थेनाष्टविधकर्माद्यात्मकाभ्यन्तरग्रन्थेन च विनिर्मुक्तः, अत एवासौ अष्टविधं कर्मग्रन्थिं न प्रकरोति । अतोऽकृतत्वादेव स च कर्मग्रन्थिश्चतुर्भिरस्थानैर्न विपाकमागच्छति । तद्यथा नैरयिकैस्तिर्यग्योनिकैर्मनुष्यैर्देवैः । नैष निर्ग्रन्थस्तान् पर्यायान् प्राप्य तद्विपाकमनुभवतीत्यभिप्रायः ।
उक्तगतिचतुष्टयं च समासतो लोक एवेति तद्वक्तव्यतामाहलोए ण कताइ णासी, ण कताड़ ण भवति, ण कताइ ण भविस्सति, भुविं च भवति य भविस्सति य, धुवे णितिए सासए अक्खए अव्वए अवट्ठिए णिच्चे, से जहाणामते पंच अस्थिकाया ण कयाति णासी जाव णिच्चा एवामेव लोके वि ण कयाति णासि जाव णिच्चे ।।
लोको न कदाचिन्नाऽऽसीत्, अपि तु सदैवासीत् । न कदाचिन्न भवति, अपि तु सदैव भवति । न कदाचिन्न भविष्यति, अपि तु सदैव भविष्यति । किमुक्तं भवति अभवत् - भवति भविष्यति च कालत्रयेऽप्यस्यावस्थानमिति ध्रुवः, मेर्वादिवत्। ध्रुवत्वादेव सदैव नियतः, चतुर्गतिषु संसारवचनवत्, नियतत्वादेव शाश्वतः शश्वद्भवनस्वभावः, शाश्वतत्वादेवाक्षयः, तत्प्रदेशमात्रस्यापि क्षयविरहात्, अक्षयत्वादेवाव्ययः, मानुषोत्तराद्बहिः समुद्रवत् । अव्ययत्वादेव सदैव प्रमाणेऽवस्थितः, जम्बूद्वीपादिवत् एवं च सदावस्थानेन नित्य:,
-
-
१०९
११०
आर्षोपनिषद्
आकाशवत् ।
निदर्शनेन व्यक्तीविधत्ते - ते यथानामकाः पञ्चास्तिकायाः जीवधर्माधर्मपुद्गलाकाशलक्षणाः, न कदाचिन्नासन् यावन्नित्या एवमेव लोकोऽपि न कदाचिन्नासीद्यावन्नित्यः । प्रकृताध्ययनपरिणतिफलमाह
एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ।। त्ति बेमि । ।
एवमित्यादि प्राग्वत् । इत्येकत्रिंशत्तमस्य पार्श्वीयाध्ययनस्य वाचनान्तर आर्षोपनिषद् ।
।। अथ द्वात्रिंशत्तमोऽध्यायः ।। अनन्तराध्ययने संवरोपदेशोऽभिहितः, अत्र तु स एवोपमानेनाभिधीयते
" दिव्वं भो किसिं किसेज्जा णो अप्पिणेज्जा" पिंगेण माहणपरिव्वायएणं अरहता इसिणा बुझतं । । ३२ - १ ।। दिव्यमित्यादि प्राग्वत् ( ऋषिभाषिते २६ - ८ ) । केनैवमुक्तमित्याह - पिङ्गेन ब्राह्मणपरिव्राजकेनार्हतर्षिणोदितम् । दिव्यकृष्युपदेष्ट्रा स्वयमप्यवश्यं तत्कर्त्रा भाव्यम्, किन्तु नास्य तथाविधसाधनलेशोऽपि दृश्यत इत्याशङ्क्य कश्चित् प्रश्नयति -
कतो छेत्तं ? कतो बीयं ? कतो ते जुग-जंगला ? | गोणा वि ते ण पस्सामि अज्जो ! का णाम ते किसी ? ।।३२-२।।
कुतः क्षेत्रम् ? किम्पार्श्वतो तव क्षेत्रं वर्तते ? क्व तव क्षेत्रं
-