Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 63
________________ ऋषिभाषितानि तमेव विशेषयति - निर्ग्रन्थः - काञ्चनादिरूपबाह्यग्रन्थेनाष्टविधकर्माद्यात्मकाभ्यन्तरग्रन्थेन च विनिर्मुक्तः, अत एवासौ अष्टविधं कर्मग्रन्थिं न प्रकरोति । अतोऽकृतत्वादेव स च कर्मग्रन्थिश्चतुर्भिरस्थानैर्न विपाकमागच्छति । तद्यथा नैरयिकैस्तिर्यग्योनिकैर्मनुष्यैर्देवैः । नैष निर्ग्रन्थस्तान् पर्यायान् प्राप्य तद्विपाकमनुभवतीत्यभिप्रायः । उक्तगतिचतुष्टयं च समासतो लोक एवेति तद्वक्तव्यतामाहलोए ण कताइ णासी, ण कताड़ ण भवति, ण कताइ ण भविस्सति, भुविं च भवति य भविस्सति य, धुवे णितिए सासए अक्खए अव्वए अवट्ठिए णिच्चे, से जहाणामते पंच अस्थिकाया ण कयाति णासी जाव णिच्चा एवामेव लोके वि ण कयाति णासि जाव णिच्चे ।। लोको न कदाचिन्नाऽऽसीत्, अपि तु सदैवासीत् । न कदाचिन्न भवति, अपि तु सदैव भवति । न कदाचिन्न भविष्यति, अपि तु सदैव भविष्यति । किमुक्तं भवति अभवत् - भवति भविष्यति च कालत्रयेऽप्यस्यावस्थानमिति ध्रुवः, मेर्वादिवत्। ध्रुवत्वादेव सदैव नियतः, चतुर्गतिषु संसारवचनवत्, नियतत्वादेव शाश्वतः शश्वद्भवनस्वभावः, शाश्वतत्वादेवाक्षयः, तत्प्रदेशमात्रस्यापि क्षयविरहात्, अक्षयत्वादेवाव्ययः, मानुषोत्तराद्बहिः समुद्रवत् । अव्ययत्वादेव सदैव प्रमाणेऽवस्थितः, जम्बूद्वीपादिवत् एवं च सदावस्थानेन नित्य:, - - १०९ ११० आर्षोपनिषद् आकाशवत् । निदर्शनेन व्यक्तीविधत्ते - ते यथानामकाः पञ्चास्तिकायाः जीवधर्माधर्मपुद्गलाकाशलक्षणाः, न कदाचिन्नासन् यावन्नित्या एवमेव लोकोऽपि न कदाचिन्नासीद्यावन्नित्यः । प्रकृताध्ययनपरिणतिफलमाह एवं से सिद्धे बुद्धे विरते विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति ।। त्ति बेमि । । एवमित्यादि प्राग्वत् । इत्येकत्रिंशत्तमस्य पार्श्वीयाध्ययनस्य वाचनान्तर आर्षोपनिषद् । ।। अथ द्वात्रिंशत्तमोऽध्यायः ।। अनन्तराध्ययने संवरोपदेशोऽभिहितः, अत्र तु स एवोपमानेनाभिधीयते " दिव्वं भो किसिं किसेज्जा णो अप्पिणेज्जा" पिंगेण माहणपरिव्वायएणं अरहता इसिणा बुझतं । । ३२ - १ ।। दिव्यमित्यादि प्राग्वत् ( ऋषिभाषिते २६ - ८ ) । केनैवमुक्तमित्याह - पिङ्गेन ब्राह्मणपरिव्राजकेनार्हतर्षिणोदितम् । दिव्यकृष्युपदेष्ट्रा स्वयमप्यवश्यं तत्कर्त्रा भाव्यम्, किन्तु नास्य तथाविधसाधनलेशोऽपि दृश्यत इत्याशङ्क्य कश्चित् प्रश्नयति - कतो छेत्तं ? कतो बीयं ? कतो ते जुग-जंगला ? | गोणा वि ते ण पस्सामि अज्जो ! का णाम ते किसी ? ।।३२-२।। कुतः क्षेत्रम् ? किम्पार्श्वतो तव क्षेत्रं वर्तते ? क्व तव क्षेत्रं -

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132