Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 62
________________ -१०७ Re-ऋषिभाषितानि - इदमत्र तात्पर्यम्, तत्तदुपभोक्तृपापकर्मवशात्तत्तद्पुद्गलानां परिणामः सञ्जायते, यथा नरकेषु क्षुरप्रसङ्काशः पृथिवीपरिणामः। अत्राप्याक्षेपपरिहारौ पूर्ववद्वाच्यौ। ___ एवं पापकर्मोदयानुभावेन न कदाचिदपि प्रजा - जन्तुजातरूपा, अदुःखमकार्षीत्, सदैव दुःखमेवान्वभवदित्यर्थः। दुःखमपि कर्ममूलकम्, तदपि स्वयंकृतमिति स्फुटयति - जीवा आत्मकृतानि कर्माणि कृत्वा कृत्वा तत्फलं वेदयन्ति, तद्यथा - प्राणातिपातेन यावत् परिग्रहेण। पञ्चाश्रवैरित्यर्थः। एष खलु असम्बुद्धः - मिथ्यात्वोपेततया सज्ज्ञानविवर्जितः, असंवृतकर्म - आश्रवविशेषभूतं कृत्यम्, तस्यान्तः परिणामो विपाक इति यावद् भोग्यतया यत्सम्बन्धी सः - असंवृतकर्मान्तः, चातुर्यामः - व्यवहारमात्रतः प्रतिपन्नयमचतुष्टयः, निर्ग्रन्थः - मुक्तकञ्चुकविषधरवद् बाह्यग्रन्थमात्रत्यागी, नामनिर्ग्रन्थ इत्याशयः। सोऽष्टविधम् - ज्ञानावरणीयाद्यष्टप्रकारम्, कर्म एव ग्रन्थिः - कर्मग्रन्थिः, बन्धनहेतुतासाधर्म्यात्, तं प्रकरोति अशुभाध्यवसायप्रकर्षण बधाति। स च कर्मग्रन्थिश्चतुर्भिस्थानविपाकमागच्छति, तद्यथा - नैरयिकैस्तिर्यग्योनिकैर्मनुष्यैर्देवैः, एतत्पर्यायाननुभूयमानैस्तैस्तत्कर्मविपाको वेद्यत इत्यर्थः। सैषाऽशुभकर्मवेदनवक्तव्यता, साम्प्रतं शुभकर्मवेदनविषयमाह अत्तकडा जीवा णो परकडा किच्चा किच्चा वेदेति, तं जहा - पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं। एस खलु संबुद्धे संवुडकम्मते १०८ - आर्षोपनिषद् - चाउज्जामे णियंठे अट्टविहं कम्मगंथिं णो पकरेति, से य चउहि, ठाणेहिं णो विपाकमागच्छति, तं जहा - णेरइएहिं तिरिक्खजोणिएहिं मणुस्सेहिं देवेहि। जीवा आत्मकृतान्येव कर्माणि, न - नैव परकृतानि, कर्ता यः कर्मणां भोक्ता तत्फलानां स एव तु - इत्युक्तेः (स्वरूपसम्बोधने)। तानि कर्माणि कृत्वा कृत्वा - प्रतिसमयमपि बद्धवा, वेदयन्ति, विपाककाले तत्फलमनुभवन्ति। कथं बभन्तीत्याहतद्यथा - प्राणातिपातविरमणेन यावत् परिग्रहविरमणेन संवरपञ्चकेनेत्यर्थः। अत्रापि सरागसंयमेन देवायुष्यादिशुभकर्मबन्धं प्रति हेतुता द्रष्टव्या, एवं च सविशेषणस्य विधेर्विशेषणेऽनुसङ्क्रमात् प्रशस्तरागस्यैव शुभकर्मबन्धनिबन्धनत्वमापन्नम्, संवरस्य तद्धेतुत्वायोगादिति भावनीयम्। यद्वा वीतरागसंयमविषय एवायं विधिरिति संवरलक्षणकारणस्य यद्यदक्रियाप्रमुखं फलम्, तदेव तत्कृतत्वेन कार्यतया कर्मरूपेण विवक्षितम्, संवरानुभावेन तत्तत्फलं जीवा अनुभवन्तीति। तमेव वीतरागसंयमशालिनमधिकृत्याऽऽह - एष खलु सम्बुद्धः - केवलज्ञानात्मकसम्बोध सम्पन्नः, संवृतकर्म - पञ्चाश्रवविरमणादिरूपः संयमः, तस्यान्तः - परिणामो भोक्तव्यतया यस्य सम्बन्धी सः - संवृतकर्मान्तः, तमेव विशेषयति - चातुर्यामः परमार्थतः प्रतिपन्नयमचतुष्टयः, सफलत्वेनार्थक्रियाकारित्वलक्षणसल्लक्षणयोगादस्य यमचतुष्टयस्य पारमार्थिकतेति भावनीयम्।

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132