________________
- ऋषिभाषितानि मण्णेति भद्दका भद्दकाई मधुराई मधुरं मण्णेति। कडुयभणियाई कडुअं, फरुसं फरुसाई मण्णेति
॥३०-७॥ भद्रकाः - स्वतः सुन्दरात्मानः, परेषां यादृशतादृशान्यपि वचांसि भद्रकानीति मन्यन्ते, तथैव यस्य वचो मधुरम्, मधुररसवदपरेषामालादनिबन्धनम्, सोऽपरेषां वचनानि मधुराण्येव मन्यते। यस्य च कटुकं वचः, कटुकरसास्वादवदुद्वेगजनकमित्यर्थः, सोऽपरेषां कटुकभणितान्येव मन्यते, एवं यस्य परुषं वचनं स इतरेषां वचांसि परुषाण्येव मन्यते।
अयमाशयः, यथा दृष्टिस्तथा सृष्टिरितिनीत्या भद्रपरिणामस्य सर्वेषु भद्रकतादर्शनं सञ्जायते, एवं च स्वतः शोभनस्य, सर्वेषु शोभनत्वदर्शिनस्तेषु व्यवहरतो मधुरवचनान्येव निसर्गतो निःसृज्यन्ते, तच्छ्रवणेन सञ्जातालादातिशयाः परेऽप्यनेन सह तथैव व्यवहरन्ति। ततश्चासौ मन्यते स्वभावत एव मधुराणि वचांस्येषामिति। १. क.ज. - मण्णेति भद्दका भद्दकाई । ख. थ - मोणंति भइकाई । ग.ढ.फ - मण्णेति भहका भहकाई। ण.ध.प - मण्णेति भइका भड़काई। घ.त. . मण्णंति भद्दका भद्दका इ मधुरं मधुरं ति माणति । कडुयं कडुयं भणियं ति फरुसं फरुसं ति माणति ।। २. कढ़ - मधुराई मधुरं मण्णेति । ग - मधुरं मधुणति च - मधुरंति माण ति। ख.ज.ठ.ध.ध.न.प.फ - मधुराई - विना । ण - मधुराई मधुरमाण्णेति । ३. क.ख.ज.ढण.थ - कडुयभणियाई कडुअं। ग - कडुयं (कडुय) भणियाई । झ - कडुयं कडुयभणियं ति । ध.न.प.फ - कडुयं - विना। ४. क.ख.ज.ढ.ण.थ.ध.न.प - फरुसं फरुसाई मण्णेति । ग - फरुसं फरुसाई माणति।
- आर्षोपनिषद् - ___ यस्तु कटुकमेव वचनं भाषते, सोऽपि स्वानुरूपप्रतिवचनान्यवाप्य सर्वेषामपि कटुकभणितान्येव स्वभावत इति मन्यते, एवं परुषेष्वपि ज्ञेयम्। उक्तं च - नादत्तं लभ्यते क्वचित् - इति। तस्मात् -
कल्लाणं ति भणंतस्स कल्लाणा ए पडिस्सुया। पावकं ति भणंतस्स पावया ते पडिस्सुया।।३०-८।।
कल्याणमिति भणतः प्रतिश्रुद् गिरिकन्दरादौ कल्याणा इत्याकारैव भवति तथैव पापकमिति भणतः प्रतिश्रुत् पापका इत्याकारैव भवतीति प्रसिद्धम्। दार्टान्तिकमाह
पडिस्सुयासरिसं कम्मं णच्चा भिक्खू सुभासुभं। तं कम्मं तु णिसेवेज्जा जेणं भवति णीरए।।३०-९।। भिक्षुः - रागादिलक्षणक्षुत्तिा, प्रतिश्रुत्सदृशम् - अनन्तरोक्तशुभेतरशब्दानुरूपप्रतिशब्दसङ्काशम्, शुभाशुभम् - कल्याणं पापकं च, कर्म-मनोवाक्कायकृत्यम्, इति ज्ञात्वा, तत् कर्म तु - तदेव कृत्यम्, निःशेषेण - सर्वात्मनोद्यम्य, सेवेत - आराधयेत्, येन - यत्कर्मणा, नीरजाः - निर्गतकृत्स्नकर्मरेणुः, भवति। नीरजस्कीभवनमेव व्यासत आह -
एवं से सिद्ध बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति।। त्ति बेमि।।
एवम् - नीरजस्कावस्थाबीजभूतकर्मनिषेवनेन, सः - निषेविता, सिद्ध इत्यादि प्राग्वत्। इति त्रिंशत्तमे वायुनामाध्ययन आर्षोपनिषद्।