________________
ऋषिभाषितानि
-
।। अथैकत्रिंशत्तमोऽध्यायः ।।
अनन्तराध्ययने कर्मजं लोकवैचित्र्यमित्यभिहितम्, अत्र तु तद् वैचित्र्यमेव विविच्यत इत्यत्रादावेव तन्निरूपयितुकामस्तज्जिज्ञासामुत्पादयति
केऽयं लोए १ ? कड़विधे लोए २ ? कस्स वा लोए ३ ? के वा लोयभावे ४ ? केण वा अद्वेण लोए पवुच्चई ५ ? का गती ६ ? कतिविधा गती ७ ? कस्स वा गती ८ ? के वा गतिभावे ९ १ केण वा अद्वेण गती पवुच्चति १० ?
कोऽयं लोकः ? इति स्वरूपप्रश्न ः (१) । कतिविधो लोकः ? इति प्रकारप्रश्नः (२) । कस्य वा लोकः ? इति स्वामित्वप्रश्नः (३) । को वा लोकभावः ? इति भावप्रश्नः ( ४ ) । केन वाऽर्थेन लोक इति प्रोच्यते ? इति व्युत्पत्तिप्रश्नः ( ५ ) । का गति: ? इति स्वरूपप्रश्न : ( ६ ) । कतिविधा गतिः ? इति भेदप्रश्नः ( ७ ) । कस्य वा गतिः ? इति स्वामित्वप्रश्नः ( ८ ) । को वा गतिभावः ? इति भावप्रश्नः (९) । केन वाऽर्थेन गतिरिति प्रोच्यते ? इति व्युत्पत्तिप्रश्न ः (१०) |
क एवमाहेत्यत्राह- पासेण अरहता इसिणा बुझतं पार्श्वेनार्हतर्षिणोदितम् । अत्र प्रत्युत्तरयत्यपि जीवा चेव अजीवा चेव १ । चउव्विहे लोए वियाहिते
दव्वतो लोए खेत्तओ लोए कालओ लोए भावओ लोए २। अत्तभावे लोए सामित्तं पडुच्च जीवाणं
-
९७
-
-
९८
आर्षोपनिषद्
लोए, निव्वत्तिं पडुच्च जीवाणं चेव अजीवाणं चेव ३। अणादीए अणिहणे पारिणामिए लोकभावे ४। लोकतीति लोको ५ जीवाण य पुग्गलाण य गतीति आहिता ६ | जीवाणं पुग्गलाणं चेव गती ८ दव्वतो गती खेत्तओ गती कालओ गती भावओ गती ७। अणातीए अणिधणे लोकभावे ९ । गम्मतीति गती १०।।३१-१ ।।
जीवा एवाजीवा एवेति लोकस्वरूपम्, एवकारेण तदतिरिक्तव्यवच्छेदः, तदतिरिक्तस्य लोकस्यैवाभावात् (१) ।
तथा चतुर्विधः - चतुष्प्रकारः, लोको व्याख्यातः, तद्यथा द्रव्यतो लोकः षड्द्रव्यलक्षणः, क्षेत्रतो लोकः असङ्ख्येयाकाशप्रदेशपरिमाणः, कालतो लोकः - अनाद्यनन्तः, भावतो लोकः - अनन्तोत्पादाद्यात्मकः पारिणामिको वा (२) । तथा आत्मभावे लोकः, सर्वमस्ति स्वरूपेण पररूपेण नास्ति चेति वचनात्। स्वामित्वं प्रतीत्य जीवानां लोकः, इन्द्रो दक्षिणार्धजम्बूद्वीपाधिपतिरित्यादिव्यवस्थादर्शनात्, न चैवं कदाचिदजीवानां स्वामित्वव्यपदेश इति । निर्वृतिं प्रतीत्य तु जीवानामेवाजीवानामेव, न तु केषाञ्चिदेकेषामेवेत्यवधारणतात्पर्यम्, अजीवैरपि लोकनिर्वृतिभावादिति (३) ।
-
एवमनादिः, द्रव्यत्वेनोत्पत्तिविरहात् । अनिधन:, तत्त्वेनैवान्ताभावात् । किमुक्तं भवति पारिणामिको लोकभाव इति, तदाह- निष्पादितो न केनापि, न धृतः केनचिच्च सः । स्वयंसिद्धो