________________
९४
Re-ऋषिभाषितानि पर्यनुयुङ्क्ते - कथमन्यत्र सेकोऽन्यत्र फलोत्पत्तिरिति, मूलशाखाद्यवच्छेदेन वृक्षस्य भिन्नत्वेऽपि वस्तुत एकत्वात्। एवं नरामरादिपर्यायपरावृत्तावप्यात्मनो द्रव्यत्वेनैकत्वाद्य एव कर्मकर्ता स एव तत्फलभोक्तेति सर्वमवदातम्। निदर्शनान्तरमाह -
जारिसं वुष्पते बीयं तारिसं बज्झए फलं। णाणासंठाणसंबद्धं णाणासण्णाभिसण्णितं।।
॥३०-३॥ यादृशं बीजमुप्यते - वपनक्रियाविषयीक्रियते, तादृशं फलं वृन्तादौ बध्यते - निर्वर्त्यते। कीदृशमित्याह - नाना - अनेकप्रकाराणि, संस्थानानि - अवस्थाविशेषरूपाणि - नानासंस्थानानि, तेषु सम्बद्धम् - कृतसम्बन्धम्, तथा नाना सञ्जाः - सहकारनिम्बकदलीप्रमुखा आख्याः, ताभिरभिसज्ञितम् - विहितव्यपदेशम्। उपनयति -
जारिसं किज्जते कम्मं तारिसं भुज्जते फलं। णाणापयोगणिवत्तं दुक्खं वा जइ वा सुहं।।
॥३०-४॥ एवं यादृशं शभाशुभं कर्म क्रियते तादृशमेव फलं भुज्यते, पुनः कीदृशमित्याह - नाना - अनेकप्रकारः, कर्मोदयनिबन्धनानां प्रकर्षण - अवन्ध्यरूपेण, योगः - प्रयोगः, तेन निर्वृतम् - नानाप्रयोगनिर्वृतम्, पुनः कीदृशमित्याह - दुःखं वा - दुःखात्मकं वा, यदि वा सुखम् - सुखात्मकम्। अत्र यादृशमित्यादि सामान्यतोऽभिहितम्, तदेव विशेषाभिधानेन
आर्षोपनिषद् - स्पष्टयति -
कल्लाणा लभति कल्लाणं, पावं पावा तु पावति। हिंसं लभति हतारं, जइत्ता य पराजयं।।३०-५।।
कल्याणाः - परेषां कल्याणे कारणभूताः, हेतौ फलोपचारात्, कल्याणम् - अभ्युदयादिलक्षणमात्मनः श्रेयः, लभन्तेप्राप्नुवन्ति। पापास्तु पापम् - दुःखम्, हेतौ फलोपचारात्, प्राप्नुवन्ति। हिंसन् - प्राणिनं व्यापादयन्, हन्तारम् स्वात्मव्यापादयितारम्, लभते, हिंसाकृतकर्मविपाककालेऽवश्यतया प्राप्नोति, परान हिंसन् स्वयं हिंस्यत इति तात्पर्यम्। तथा जित्वा च - परेषां पराजयं कृत्वा, स्वयं पराजयं लभते। तथा -
सूदणं सुदइत्ताणं णिदित्ता वि अ जिंदणं। अक्कोसइत्ता अक्कोसं णस्थि कम्मं णिरत्थकं।।
॥३०-६॥ सूदयित्वा - मारयित्वा, सूदनम्, आत्मन एव मारणं लभते, परान् निन्दित्वाऽपि च निन्दनं लभते, निन्दापात्रं भवतीत्यर्थः, आक्रोश्य चाक्रोशं लभते, यतः कर्म निरर्थकम् - निष्प्रयोजनम्, नास्ति। एतदेव कर्मत्वेन परिणतस्य कार्मण-वर्गणापुद्गलस्य प्रयोजनं यत् कः स्वानुरूपं फलं दातव्यमिति।
यद्वा कर्मेति शुभाशुभकृत्यमेव, तच्च न निरर्थकम् - निष्फलं भवति, कृतनाशप्रसङ्गादिति। तस्माच्छुभफलमिच्छता शुभं कर्म कर्तव्यम्, तदर्थं चात्मना शुभेन भाव्यम्, यतः -