________________
Re-ऋषिभाषितानि - धिया - सम्यग्ज्ञानानुविद्धमत्या राजत इति धीरः, तम्, तथा दान्तः - अनन्तानुबन्ध्याद्यवच्छेदेन क्षयादिभावमानीतः, सज्वलनावच्छेदेन च निगृहीतः क्रोधो येन सः, दान्तक्रोधः, तम् मानादिदमनोपलक्षणमिदम्, जितेन्द्रियम् - वशीकृतकरणग्रामम्। अत्राद्यविशेषणयुगलेन सम्यग्दर्शनज्ञानसम्पन्नता चरमविशेषणद्वयेन सच्चारित्रशालिता चोक्ता। एवं मोक्ष एव हेतौ फलोपचारात् सज्ज्ञानादिलक्षणमुक्तिमार्ग एव, परायणम् - एकायनीभावं प्राप्तम्, अत्रैवकारेणान्यत्रान्तर्भावव्यवच्छेदो बोध्यः, तम् - जीवन्मुक्तं महात्मानम्, देवा अपि नमस्यन्ति, आस्तां राजादिरित्यपिशब्दार्थः। सोऽयम् -
सव्वत्थ विरये दंते सव्ववारीहिं वारिए। सव्वदुक्खप्पहीणे य सिद्धे भवति णीरये।।२९-१९।।
सर्वत्र - तृणमणिस्त्रैणपलालादौ, विरतः - संहृतरत्यादिविकारः, दान्तः - जितात्मा, सर्वाभिः द्वारिकाभिः संवरछिट्टैराश्रवैरिति यावत्, वारितः - कृतनिवर्तनः, सर्वात्मना सुसंवृत इत्यर्थः। एवं चाश्रवनिरोधनिर्जराभ्यां क्रमेण कृत्स्नकर्मक्षयेण, प्रहीणानि सर्वदुःखानि यस्यासौ सर्वदुःखप्रहीणो भवति, हेतौ विलीने न फलस्य भाव इति न्यायात्, विशेषणपरनिपातः प्राकृतत्वात्, ततश्च नीरजाः - आत्मस्वरूपोपरञ्जकैः कर्मनोकर्मविकल्पादिलक्षणै रजोभिर्विमुक्तः, किमुक्तं भवति - सिद्धो भवतीति। कर्मक्षयोऽपि तत्क्षयोपशमक्रमेण सम्भवतीत्याह
एवं से सिद्ध बुद्धे विरए विपावे दंते दवीए अलंताती णो
- आर्षोपनिषद् - पुणरवि इच्चत्थं हव्वमागच्छति।। त्ति बेमि।।
एवमित्यादि प्राग्वत्। इत्येकोनत्रिंशत्तमे वर्धमाननामाध्ययन आर्षोपनिषद्।
॥ अथ त्रिंशत्तमोऽध्यायः ।। इहानन्तराध्ययने सिद्धभावावाप्त्युपायोऽभिहितः, अत्रापि स एव प्रकारान्तरेणाभिधीयते -
अधासच्चमिणं सव्वं वायुणा सच्चसंजुत्तेणं अरहता इसिणा बुइतं ।।३०-१॥
यथासत्यम् - सत्यं न्यायोपपन्नत्वमनतिक्रम्य व्यवस्थितम्, सर्वम् - निःशेषम्, इदम् - प्रत्यक्षत उपलभ्यमानं वस्तुजातम्।
अयं भावः, इह हि जगति यस्य यस्य वस्तुनो हेतुरध्यक्षतो नोपलभ्यते, तत्र तत्रेन्द्रजालत्वान्याय्यत्वासत्त्वाद्याशङ्का न निवर्तते, एवं राजरङ्कादिवैचित्र्यमपि निर्मूलतयानुपश्यतः कस्यचित्तत्रासत्त्वाद्यारेकाऽभूत्, यन्निरासायेदं वाक्यमुदितम् - यथेत्यादि। केनैवमभिहितमित्याह- वायुना सत्यसंयुक्तेन - मनोवाक्कायविसंवादपरिहारत ऋतम्भरेण, अर्हतर्षिणोदितम्। उदितमेवोपपत्तिभिः समर्थयन्नाह
इध जं कीरते कम्मं तं परत्तोवभुज्जइ। मूलसेकेसु रुक्खेसु फलं साहासु दिस्सति।।३०-२।।
यत् शुभाशुभं कर्म इह जन्मनि क्रियते, तत् - हेतौ फलोपचारात्तदापादितं फलम्, परत्र - परलोके, उपभुज्यते - तत्कवानुभूयते। अत्रैव लौकिकं निदर्शनमाह - मूले सेको येषां ते मूलसेकाः, तेषु वृक्षेषु शाखासु फलं दृश्यते। न च कोऽपि