________________
• ऋषिभाषितानि
दुहंता इंदिया पंच संसाराय सरीरिणं ।
ते चेव णियमिया सम्मं णेव्वाणाय भवंति हि
प्राग्वत् (ऋषिभाषिते १६- ३ ) । उक्तमेव समर्थयति - दुद्दतेहिंदिएहऽप्पा दुप्पहं हीरए बला ।
८९
।।२९-१३।।
-
दुदंतेहिं तुरंगेहि सारही वा महापहे ।। २९-१४।। दुर्दान्तैः - अत्युच्छृङ्खलतया दमयितुमशक्यैः, इन्द्रियैः हृषीकैः, आत्मा जीव, बलादपि दुष्पथम् - उन्मार्गं प्रति ह्रियते, भवहेतुक्रियाकारितां नीयत इति हृदयम् । अत्र निदर्शनमाह - यथा महापथे राजमार्गे सम्यग् व्रजन्नपि सारथि - दुर्दान्तैस्तुरङ्गैः - अश्वैर्हठादप्युन्मार्गं नीयते । उक्तप्रतिपक्षमाहइंदिहिं सुदंतेहिं ण संचरति गोयरं ।
विधेयेहिं तुरंगेहिं सारहि व्वा व संजए । । २९ - १५ ।। यथा विधेयैः - जात्यतया सुशिक्षिततया च प्रज्ञापनीयैः, विनीतैरिति यावत्, तुरङ्गै:- हयैः, सारथिरुन्मार्गं न नीयते, तथा संयतोऽपि सुदान्तैः प्रवचनप्रतिपादितविधिना सुष्ठु दमितैः, इन्द्रियैः - अक्षैः, गोचरं न सञ्चरति, विषयेषु न प्रवर्तत इत्यर्थः । एवं च तानीन्द्रियाणि जात्याश्ववत् सन्मार्गनयनेनेर्यासमित्याद्युपयुक्तानि शिवपुरप्रापकान्येव स्युरित्यभिप्रायः । इन्द्रियदमनोपाय - मेवाभिदधन्नाह -
-
पुव्वं मणं जिणित्ताणं वारे विसयगोयरं ।
विधेयं गयमारूढो सूरो वा गहितायुधो । । २९ - १६।।
आर्षोपनिषद्
पूर्वं मन: - चित्तम्, जित्वा वशीकृत्य, विषयगोचरम् - श्रोत्रादीन्द्रयोपलब्धान् शब्दादिविषयलक्षणानर्थान् रागादिविषयीकुर्वन्, वारयेत् - निरुन्ध्यात्, इत्थमेवास्य निर्विषयत्वापत्त्या मुक्तिनिबन्धनभावात् । अत्रैव दृष्टान्तमाह- यथा गृहीतायुधः हस्तादिव्यवस्थितचापादिप्रहरण:, विधेयम् प्रज्ञापनीयम्, गजम्
- हस्तिनम्, आरूढः शूरः सुभटः । स यथा सिसाधयिषितसिद्धिप्रत्यलो भवति, एवं प्रकृतेऽप्यनुसन्धेयम् । मनोविजयादिफलमाह
९०
जित्ता मणं कसाए या जो सम्मं कुरुते तवं । संदिप्पते स सुद्धप्पा अग्गी वा हविसाऽऽहुते ।।
।।२९-१७।। यः कश्चिदात्मा मनः कषायाँश्च जित्वा सम्यक् तपः कुरुते, स शुद्धात्मा - भावमलापगमप्रयुक्तनिर्मलताकलितात्मा, हविषा - घृतादिना, आहुतः - अभिविधना होमगोचरीकृतः, अग्निरिव वह्निवत्, सन्दीप्यते - सङ्क्षिप्तविपुलतेजोलेश्यत्वादिलब्ध्या सम्यक् चकास्ति । तदेवम् -
सम्मत्तणिरतं धीरं दंतकोहं जितिंदियं ।
देवा वि तं णमंसंति मोक्खे चेव परायणं ।।
-
।।२९-१८।। समयक्त्वम् तमेव सच्चं नीसंकं जं जिणेहिं पवेइयं (भगवती सूत्रादौ ) इत्यास्तिक्यमूलकशुभात्मपरिणामः, तस्मिन्
निरतम् - परायणम्, सन्ततं तद्भावभावितान्तरात्मेत्याशयः, तम्,
=
-