Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 27
________________ 70 ऋषिभाषितानि परकडं जाव रूवाइं पासित्ता णो मणसा वि पादुब्भावो भवति ।। २५-४।। अथ कथमेषा विगतरागता प्रव्रजितमात्रस्यानवाप्तवीतरागभावस्य सम्भवतीति चेत् ? न सरागस्यापि च छद्मस्थस्यापि च, अपि च इत्यनेन वीतरागस्य तु सुतरामप्रादुर्भाव इत्यावेदितम्। णं - वाक्यालङ्कारे, अपेक्षा मुक्तिलिप्सा, तया हृतः - निष्कासितः, मोहो यस्य स - अपेक्षाहृतमोहः, मुमुक्षुतया क्षीणोत्थानशक्तिकमोह इत्यर्थः, तस्य तत्र तत्रेत्यादि प्राग्वत्। यद्वाऽपकृष्टत्वेन जघन्यत्वेनेक्षणम् - अपेक्षा, तया हतो मोहो यस्येत्यपेक्षाहृतमोहः, यदाह - न मूत्रविष्टापिठरीषु रागं, बध्नन्ति कान्तासु समाधिशान्ताः । अनङ्गकीटालयतत्प्रसङ्गम ब्रह्मदौर्गन्ध्यभयास्त्यजन्ति इति । शेषं प्राग्वत् । तं कहमिति ? - तदपि मोहापहरणम्, कथमितीदानीमपि ममारेका, अत्र दृष्टान्तेनैव प्रतिविधत्ते - मूलघाते हतो रुक्खो, पुष्कघाते हतं फलं । छिण्णाए मुद्धसूईए, कतो तालस्स रोहणं ? ।। २५-५।। मूलस्य घाते कृते सति वृक्षो हत एव तद्विनाशानुविनश्वरत्वात्तस्य । पुष्पघाते फलं हतमेव, तदुद्गमस्यैव समुच्छेदात्। मूर्धसूच्यां छिन्नायां सत्यां तालस्य रोहणं कुतः ? नैव तद्रोहणं सम्भवति, मूर्धसूचिछेदानन्तरमेव तद्विनाशभावात् । - १. समाधिसाम्यद्वात्रिंशिकायाम् ।।१५।। २. प्राग्व्याख्यातमिदं वृत्तम्, ऋषिभाषिते । । १५-१० ।। ३७ - - Ashopnisad_2.p65 2nd Proof • आर्षोपनिषद् - एवमाज्ञायोगखड्गप्रहारजर्जरितो मृतप्रायो मोहो यद्यपि विद्यमानः, तथापि हत एवेत्यत्रोपनयः सुगमः । आज्ञायोगोऽप्यतीव दुरनुष्ठेय इत्याह- से कधमेतं ? अथ कथमेतदाज्ञायोगानुष्ठानमेव सम्भवति ? सुदुस्त्यजत्वात्कामानामित्यत्राह - ३८ हत्थिमहरुक्खणिदरिसणं, तेल्लपाउधम्मं किंपागफलणिदरिसणं । से जधाणामते साकडिए अक्खं मक्खेज्जा " एस मे णो भज्जिस्सति भारं च मे वहिस्सति', एवामेवोवमाए समणे णिग्गंथे छहिं ठाणेहि आहारं आहारेमाणे णो अतिक्कमेति, वेदणा-वेयावच्चे० तं चेव । से जधाणामते जतुकारए इंगाले अगणिकायं णिसिरेज्जा “एस मे अगणिकाए णो विज्झाहिति जतुं च तावेस्सामि, ' एवामेवोवमाए समणे णिग्गंथे छहिं ठाणेहिं आहारं आहारेमाणे णो अतिक्कमेति, वेदणा-वेयावच्चे० तं चेव। से जधाणामते उसुकारए तुसेहिं अगणिकायं सिरेज्जा "एस मे अगणिकाए णो विज्झातिस्सति उसुं च तावेस्सामि', एवामेवोवमाए समणे णिग्गंथे०, सेसं तं चेव ।। २५- ६।। हस्तिमहावृक्षनिदर्शनम् गजप्रयोगकम्प्रविशालपादप १. क तेल्लपाउधमा ख-ज-ठ-थ-न तेल्लपाउधमं ग-ध-च-झ-त- तेल्लापाउधम्मं । ८. ढ. तेल्लपाउधमं । ध-प- तेल्लपाउधम्मं ।

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132