Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 29
________________ 7- ऋषिभाषितानि परिचर्या, तदेव आगमप्रसिद्धं वृत्तमत्रानुसन्धेयमित्यतिदेशः, तदार्षम् - वेयणवेयावच्चे, ईरियट्ठाए संजमट्ठाए । तह पाणवत्तियाए, छट्ठे पुण धम्मचिंताए इति । अत्र निर्युक्तिः - नत्थि छुहाए सरिसा वियणा भुंजेज्ज तप्पसमणट्ठा। छाओ वेयावच्चं ण तर काउं अओ भुंजे। इरिअं न वि सोहेई पेहाईअं च संजम काउं । थामो वा परिहाइ गुणऽणुप्पेहासु अ असत्तो - इति । वृत्तिलेश: - नास्ति क्षुधा - बुभुक्षया, सदृशी वेदना, उक्तं चपंथसमा नत्थि जरा, दारिद्दसमो य परिभवो नत्थि । मरणसमं नत्थि भयं, छुहासमा वेणानत्थि ।। तं नत्थि जं न बाहइ, तिलतुसमित्तं पि एत्थ कायस्स । सन्निज्झं सव्वदुहाई देंति आहाररहियस्स ।। ततः तत्प्रशमनार्थम् – क्षुद्वेदनोपशमार्थं भुञ्जीत, तथा छातो- बुभुक्षितः सन् वैयावृत्यं न शक्नोति कर्तुम्, तथा चोक्तम् - गलइ बलं उच्छाहो, अवेइ सिढिलेइ सयलवावारे । नासइ सत्तं अरई, विवड्डए असणरहियस्स – अतो वैयावृत्यकरणाय भुञ्जीत - इति । शिष्टं - स्पष्टम् । - - ४१ निदर्शनान्तरमाह - स यथानामको जतुकारकः- लाक्षाकृत्, अङ्गारेष्वग्निकायम् - हुताशं निसृजेत् - अरण्यादिनोत्पात् सङ्क्रमयेत्। किं सम्प्रधार्येत्याह- एष मेऽग्निकायो न विध्यायिष्यति - इन्धनानुभावेन न निर्वाणतामुपयास्यति, जतुं च - लाक्षां च, तापयिष्यामि - मदभीष्टाकारनिष्पत्त्यनुगुण तयोष्णीकरिष्यामि । एवमित्यादि प्राग्वत् । १. स्थानाङ्गे ।।६-३ ।।५०० ।। उत्तराध्ययने । । २६-३२ ।। पिण्डनिर्युक्ती । ।६६२ ।। २. स्थाम बलं प्राण इत्येकोऽर्थः । ३. पिण्डनिर्युक्ती । । ६६३-६६४ ।। ४. पिण्डनिर्युक्तौ । । ६६३-६६४ ।। वृत्ती । Ashopnisad_2.p65 2nd Proof आर्षोपनिषद् - दृष्टान्तान्तरमाह स यथानामकः, इषुः बाणः, तत्कारकस्तुषैः - तृणविशेषैरग्निकार्य निसृजेदित्यादि पूर्ववत् । इषुं च तापयिष्यामि इषुसत्कलौहभागं तापनेन यथोचितसन्धानाद्य करिष्यामीति भावः । एवमित्यादि प्राग्वत् । पर्यवसितमाह - एवं से सिद्धे बुद्धे विरए विपावे दंते दविए अलंताती णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।। एवम् आज्ञायोगानतिक्रमेण, सः - श्रमणो निर्ग्रन्थः, सिद्ध इत्यादि प्राग्वत् । इति पञ्चविंशतितमेऽम्बडाध्ययन आर्षोपनिषद् । ४२ - ।। अथ षड्विंशतितमोऽध्यायः ।। अनन्तराध्ययने श्रमणानां सर्वथा निरवद्या जीविकोक्ता, अतस्त एव परमार्थेन ब्राह्मणाः, मा नैव हन्ति परितापनादिविषयीकुर्वन्ति प्राणिनः - माहना इति निरुक्तियोगात्, ततोऽत्र जातिमदं परिहृत्य भावब्राह्मण्यसम्पादनायैवोपदेशमाह" कतरे धम्मे पण्णत्ते ?, सव्वाउसो ! सुणेध मे । किंण्णा बंभणवण्णाभा, युद्धं सिक्खंति माहणा ।। ।।२६-१।। ब्राह्मणत्वसमुचिताचारः, कतरः - किंस्वरूपः, धर्मः प्रज्ञप्तः - सर्वज्ञैः प्रतिपादितः, तदहं निवेदयामि, हे सर्वेऽप्यायुष्मन्तः ! मम निवेदयतस्तद्वक्तव्यं शृणुत । कथं ब्राह्मणवर्णः भरतचक्रवर्त्तिस्थापिता माहनाभिधा जातिः, श्रावकनिकर इत्यर्थः, तदाभा - तन्नाममात्रसादृश्यभाजः, सान्वर्थताविरहात्, १. घ-झ-त-थ-ट- किणा। न- किंण्णा । - - -

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132