Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 43
________________ ऋषिभाषितानि बहवः - प्रभूताः, जीवाः क्लिश्यन्ति - शारीरमानसानन्तकष्टसन्दोहं विषहन्ते । तदाह - कामसंपाडणनिमित्तं० किलिस्सन्ति अकिलिस्सियव्वं इति (समरादित्यकथायां नवमे भवे ) । तस्मात् - सल्लं कामा विसं कामा कामा आसीविसोवमा । बहुसाधारणा कामा कामा संसारवड्ढणा ।। २८-४।। शलति - देहान्तश्चलतीति शल्यम्- शरीरान्तः प्रविष्टं तोमरादि । शल्यमिव शल्यम्, के ते ? काम्यमानत्वात्कामाः - मनोज्ञशब्दादयः, यथा हि शल्यमन्तश्चलद्विविधबाधाविधायि तथैतेऽपि तत्त्वत एषामपि सदा बाधाविधायित्वात्, तथा वेवेष्टिव्याप्नोतीति विषम्- तालपुटादि, विषमिव विषं कामाः, यथैव हि तदुपभुज्यमानं मधुरमित्यापातसुन्दरमिवाऽऽभाति, अथ च परिणतावतिदारुणमेवमेतेऽपि कामाः । तदाह- विषयेन्द्रियसंयोगात् यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् - इति (भगवद्गीतायाम् ।।१८-३८ । । ) । तथा कामाः, आस्य:- दंष्ट्रास्तासु विषमस्येत्याशीविष- स्तदुपमाः, यथा ह्ययमज्ञैरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति तथैतेऽपि कामाः । किञ्च कामा बहुसाधारणाः, कुक्कुरशूकराद्यधमजीवेष्वपि समानतयोपभुज्यमानाः, अतस्तदादृतौ शूकरादेरात्मनो निर्विशेषतैव स्यात् । तथा कामाः संसारं वर्धयन्तीति संसारवर्धनाः, यतः पत्यंति भावओ कामे जे जीवा मोहमोहिया । दुग्गमे भयसंसारे ते धुवं दुक्खभागिणो ।। २८-५ ॥ ६९. आर्षोपनिषद् ये मोहः - अतत्त्वदर्शनम्, तेन मोहिताः विनष्टविवेकप्रज्ञा:- मोहमोहिता जीवा भावतः - स्वरसतः, कामान् प्रार्थयन्ति अभिलषन्ति, ते - जीवा अनेकाधिव्याधिशोकजन्मजरामरणादिजटिलत्वेन दुःखेन गम्यते यत्र स दुर्गमः, तस्मिन्, अत एव भयनिचिते संसारे भयसंसारे ध्रुवम् - सुनिश्चितम् दुःखभागिनः कष्टलब्धारः । यदुक्तम् विसए अवइक्खता, पडति संसारसायरे घोरे इति (इन्द्रियपराजयशतके ।।२८।। ) । एतदेवाह - कामसल्लमणुद्धित्ता जंतवो काममुच्छिया । जरा-मरणकंतारे परियंत्तंति वक्कमं ।। २८-६ ।। कामेन कामेषु वा मूर्च्छिता जन्तवः कामशल्यमनुद्धृत्य जिनप्रवचनशलाकया तदुद्धारमकृत्वा, जरामरणान्येव गुपिलतया कान्तारः - जरामरणकान्तारः, तस्मिन्, अपगतः क्रमो यथा स्यात्तथाऽपक्रमम्, पृथिव्यादिष्वनियतमिति भावः, परिवर्तन्ते पुनः पुनरुद्भवमाप्नुवन्ति । अतोऽवश्यं कामशल्यमुद्धरितव्यम्, प्राप्तेष्वपि कामेषु तृप्त्यसम्भवाच्चेत्यात्मव्यपदेशेनैवाह ७० - - - - - - - सदेवमाणुसा कामा मए पत्ता सहस्ससो । न याहं कामभोगेसु तित्तपुव्वो कयाइ वि ।। २८- ७ ॥ १. क.ण परिव्ययंतिवक्कमं । ख परियत्तंतिवक्कवं । ग.द. ढ. ध.न.प.परियत्तंति वक्कमं । घत परियत्तन्तवुक्कमं । च परियत्तंत्यवक्कमं । ज परियत्तंति पक्कव्वं । टपरियन्त्तति पक्कवं । ठ परियत्तंति पक्कवं । झ परियत्तंतवुक्कमं थ परियत्तंति वक्कवं ।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132