Book Title: Rushibhashitani Part 2
Author(s): 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 45
________________ e ऋषिभाषितानि ७३ साम्राज्यान्तःपुरबलवाहनादिभिर्विस्तीर्णा अपि - विस्तृतसुखसाधनसम्पन्ना अपि नराधिपाः - भूपालाः, कामभोगेनाभिभूतः- विडम्बित आत्मा येषां ते कामभोगाभिभूतात्मानः सन्तः, कञ्चित् कालं यावदिमाम् - प्रत्यक्षं दृश्यमानाम्, स्फीतिम् सागरमेखलालङ्कृततयातीव विशालाम्, क्षितिम् - पृथिवीलक्ष्मीम्, भुक्त्वा तत्स्वामितया तदुपभोगं कृत्वा, विवशा:कामभोगोपार्जितक्लिष्टकर्मविपाकाधीनत्वेन परतन्त्राः, दुर्गतिम् नरकादिदुष्टगतिम्, गताः - उपयाताः । अत एषां सुखमपि परमार्थतो हेयमेव, आह च- किं विभुत्वेन ? किं भोगैः ? किं सौन्दर्येण ? किं श्रिया ? । किं जीवितेन जीवानां दुःखं चेत् प्रगुणं - इति ( योगसारे । । ४ - २७ ।। ) । एवं च - काममोहितचित्तेणं विहाराहारकंखिणा । पुरः दुग्गमे भयसंसारे परीतं केसभागिणा । । २८ - ११ । । काममोहितचित्तेन जीवेन विहारः - स्वैररतिक्रीडादिः, आहार : - मधुराद्यभीष्टभोजनम्, विहारश्चाहारश्च विहाराहारौ, तौ काङ्क्षते- कामकामितया समभिलषति - विहाराहारकाङ्क्षी, तेन, क्लेशभागिना - दुःसहदुःखसन्दोहपात्रेण सता, दुर्गमे भयसंसारे प्राग्वत्, परिसमन्तात् इतम् गतम् भ्रान्तमिति यावत् - परीतम्। यदार्षम् - कामाणुगिद्धिप्पभवं खु दुक्खं सव्व लोयस्स सदेवयस्स - इति (उत्तराध्ययने ।। ३२ - १९।। ) । एवञ्च तद्धेतोरेवास्तु किन्तेनेतिन्यायात्स्वयमेव जीवो दुःखकर्तेत्याह - आर्षोपनिषद् अप्पक्कतावराहोऽयं जीवाणं भवसागरो । सेओ जरग्गवाणं वा अवसाणम्मि दुत्तरो ।। २८-१२ ।। जीवानामयं भवसागर आत्मकृतापराधः आत्मनैव प्राक्कृतवृजिनव्युष्टिरूप इति भावः, हेतौ फलोपचारात्। जरद्गवामिव - वृद्धबलीवर्दानामिव सेयः पङ्कः, तथाऽवसाने - पर्यन्ते दुःखेन तीर्यत इति दुस्तरः, भवति । अयं भावः, यथा हि ते बलीवर्दाः स्वरसत एव पङ्के निमज्जन्ति, पर्यन्ते च तत आत्मानमुद्धर्तुमशक्तास्तत्रैवावसन्नास्तीरमवाप्तुं न शक्नुवन्ति, तथा जीवा अपि स्ववशतया कर्माणि कृत्वा तद्विपाककाले विवशतया सीदन्तीति । इत्थं च - अप्पक्कतावराहेहिं जीवा पावंति वेदणं । अप्पक्कतेहिं सल्लेहिं सल्लकारी व वेदणं । । ।।२८-१३।। जीवा आत्मनैव कृतैः विहितैः, अपराधैः दुष्टकृत्यैः, वेदनाम् दु:खम्, प्राप्नुवन्ति । यथा कश्चित् शल्यम् प्रहरणविशेषः, तं करोति निर्वर्तयतीति शल्यकारी, स प्रमत्तः सन्, आत्मकृतैरेव शल्यैर्वेदनाम् - स्वहस्तादिवेधकृतपीडाम्, प्राप्नोति । यथोक्तम् हणाइ सत्थं जह कुग्गहीयं ( उत्तराध्ययने । । २० - ४४ ।। ) । तस्मात् - जीवो अप्पोवघाताय पडते मोहमोहितो। बंधमोग्गरमाले वा णच्वंतो बहुवारिओ । । २८ - १४॥ मालो वा ट मांलोदा । मावोदा पमा। कोदा । ७४ - - १. पापफलम्। २. घ. झतमाले वा । च ढमापोदा । ण मायोदा। धमाकोदा । न - - इति

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132