Book Title: Rushibhashitani Part 2
Author(s):
Publisher: Jinshasan Aradhana Trust
View full book text
________________
Re-ऋषिभाषितानि -
- ७१ दैवैर्मानुषैश्च कामैः सहिताः - सदेवमानुषाः, कामा मया सहस्रशः, उपलक्षणादन्तशोऽपि प्राप्ताः, न च तथाप्यहं कदापि कामभोगेषु तृप्तपूर्वः - प्राक् प्राप्ततृप्तिः, यदाह- देविंदचक्कवट्टित्तणाइ रज्जाइ उत्तमा भोगा। पत्ता अणंतखुत्तो न य हं तत्तिं गओ तेहिं - इति (इन्द्रियपराजयशतके।।१६।।)। दहनस्तृणकाष्ठसञ्चयैरपि तृप्येदुदधिर्नदीशतैः। न तु कामसुखैः पुमानहो बलवत्ता खलु कापि कर्मणः - इति (चन्द्रप्रभकाव्ये।।) च। अतः
तित्तिं कामेसु णासज्ज पत्तपुव्वं अणंतसो। दुक्खं बहुविहाकारं कक्कसं परमासुभं।।२८-८।।
कामेषु तृप्ति नासाद्य - अप्राप्य, अनन्तशो रोगशोकादिप्रकारैर्बहुविधा आकाराः- स्वरूपा यस्य तद् बहुविधाकारम्, कर्कशद्रव्यमिव (व्याख्याप्रज्ञप्तौ।।९-३३।।) कर्कशमनिष्टमिति यावत्, कर्कशस्पर्शसम्पादितत्वेन (स्थानाङ्गे।। नवमे स्थाने।।) चण्ड वा, यथा कर्कश-पाषाणसङ्घर्षः शरीरस्य खण्डानि त्रोटयति, एवमात्मप्रदेशान् त्रोटयद् यदुःखमुपजायते (राजप्रश्नीये।) तत्ककैशम्। परमाशुभम् - अत्यन्तमशिवं दुःखं प्राप्तपूर्वम्, यतः
कामाण मग्गणं दुक्खं तित्ती कामेसु दुल्लभा। विज्जुज्जोतो परं दुक्खं, तण्हक्खय परं सुहं।।
॥२८-९॥ कामानां मार्गणम् - अन्वेषणम्, दुःखम्, अपेक्षाया एव दुःखरूपत्वात्, तथा च पारमर्षम् - अविक्खा अणाणंदे - इति (पञ्चसूत्रे ।।५।।)।
७२
आर्षोपनिषद् - अन्वाह च - पुरःफलायामाशायां जनः कामं विडम्ब्यते इति (विदग्धमाधवे।।४-१८॥)। कामेषु प्रवृत्तस्य तृप्तिर्दुर्लभा, कामानामेवातृप्तिबीजत्वात्, तदाह- आरम्भे तापकान् प्राप्तावतृप्तिप्रतिपादकान्। अन्ते सुदुस्त्यजान् कामान् कामं कः सेवते सुधीः - इति (इष्टोपदेशे।।१७।।)। तत्त्वमप्येषां सङ्कल्पेनापि तृष्णावहत्वात्, तदाह- अपि सङ्कल्पिताः कामाः सम्भवन्ति यथा यथा। तथा तथा मनुष्याणां तृष्णा विश्वं विसर्पतिइति (ज्ञानार्णवे।।२०-३०॥)। किञ्च विद्युत उद्योत इव विधुदुद्योतः, कामसुखस्य क्षणिकत्वमित्याशयः, तदाश्रयस्य जीवितस्यैव तदाभत्वात्, यदाह- विज्जुलयाचंचलं जए जीअं - इति (वैराग्यशतके।।३६।।)। अतस्तदपि परम्- परमम्, दुःखम्। किं तर्हि सुखमित्याह- तृष्णाक्षयः परं सुखम्, उक्तं च - आशा हि परमं दुःखं, नैराश्यं परमं सुखम्- इति (भागवते।।११-८४४।।)।
स्यादेतत्, यत्काममार्गणे दुःखमुक्तं तत्तु दरिद्राणामेव सङ्गतिमङ्गति, नृपादीनां तु नैतदिति तेषां सुखसम्भवः स्यादिति चेत् ? न, परिणामादिना कामानामेव दुःखात्मकतायाः प्रागुपपादितत्वात्, परिणामविरसत्वाच्च, एतदेवाचष्टे - कामभोगाभिभूतप्पा वित्थिण्णा वि णराहिवा। फीतिं खितिं इमं भोच्चा दोग्गतिं विवसा गता।।
॥२८-१०॥
१. अतृप्तिवीजत्वं कामानाम् । २. घ.झ.त. - पिज्जुज्जोगा।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132