SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Re-ऋषिभाषितानि - - ७१ दैवैर्मानुषैश्च कामैः सहिताः - सदेवमानुषाः, कामा मया सहस्रशः, उपलक्षणादन्तशोऽपि प्राप्ताः, न च तथाप्यहं कदापि कामभोगेषु तृप्तपूर्वः - प्राक् प्राप्ततृप्तिः, यदाह- देविंदचक्कवट्टित्तणाइ रज्जाइ उत्तमा भोगा। पत्ता अणंतखुत्तो न य हं तत्तिं गओ तेहिं - इति (इन्द्रियपराजयशतके।।१६।।)। दहनस्तृणकाष्ठसञ्चयैरपि तृप्येदुदधिर्नदीशतैः। न तु कामसुखैः पुमानहो बलवत्ता खलु कापि कर्मणः - इति (चन्द्रप्रभकाव्ये।।) च। अतः तित्तिं कामेसु णासज्ज पत्तपुव्वं अणंतसो। दुक्खं बहुविहाकारं कक्कसं परमासुभं।।२८-८।। कामेषु तृप्ति नासाद्य - अप्राप्य, अनन्तशो रोगशोकादिप्रकारैर्बहुविधा आकाराः- स्वरूपा यस्य तद् बहुविधाकारम्, कर्कशद्रव्यमिव (व्याख्याप्रज्ञप्तौ।।९-३३।।) कर्कशमनिष्टमिति यावत्, कर्कशस्पर्शसम्पादितत्वेन (स्थानाङ्गे।। नवमे स्थाने।।) चण्ड वा, यथा कर्कश-पाषाणसङ्घर्षः शरीरस्य खण्डानि त्रोटयति, एवमात्मप्रदेशान् त्रोटयद् यदुःखमुपजायते (राजप्रश्नीये।) तत्ककैशम्। परमाशुभम् - अत्यन्तमशिवं दुःखं प्राप्तपूर्वम्, यतः कामाण मग्गणं दुक्खं तित्ती कामेसु दुल्लभा। विज्जुज्जोतो परं दुक्खं, तण्हक्खय परं सुहं।। ॥२८-९॥ कामानां मार्गणम् - अन्वेषणम्, दुःखम्, अपेक्षाया एव दुःखरूपत्वात्, तथा च पारमर्षम् - अविक्खा अणाणंदे - इति (पञ्चसूत्रे ।।५।।)। ७२ आर्षोपनिषद् - अन्वाह च - पुरःफलायामाशायां जनः कामं विडम्ब्यते इति (विदग्धमाधवे।।४-१८॥)। कामेषु प्रवृत्तस्य तृप्तिर्दुर्लभा, कामानामेवातृप्तिबीजत्वात्, तदाह- आरम्भे तापकान् प्राप्तावतृप्तिप्रतिपादकान्। अन्ते सुदुस्त्यजान् कामान् कामं कः सेवते सुधीः - इति (इष्टोपदेशे।।१७।।)। तत्त्वमप्येषां सङ्कल्पेनापि तृष्णावहत्वात्, तदाह- अपि सङ्कल्पिताः कामाः सम्भवन्ति यथा यथा। तथा तथा मनुष्याणां तृष्णा विश्वं विसर्पतिइति (ज्ञानार्णवे।।२०-३०॥)। किञ्च विद्युत उद्योत इव विधुदुद्योतः, कामसुखस्य क्षणिकत्वमित्याशयः, तदाश्रयस्य जीवितस्यैव तदाभत्वात्, यदाह- विज्जुलयाचंचलं जए जीअं - इति (वैराग्यशतके।।३६।।)। अतस्तदपि परम्- परमम्, दुःखम्। किं तर्हि सुखमित्याह- तृष्णाक्षयः परं सुखम्, उक्तं च - आशा हि परमं दुःखं, नैराश्यं परमं सुखम्- इति (भागवते।।११-८४४।।)। स्यादेतत्, यत्काममार्गणे दुःखमुक्तं तत्तु दरिद्राणामेव सङ्गतिमङ्गति, नृपादीनां तु नैतदिति तेषां सुखसम्भवः स्यादिति चेत् ? न, परिणामादिना कामानामेव दुःखात्मकतायाः प्रागुपपादितत्वात्, परिणामविरसत्वाच्च, एतदेवाचष्टे - कामभोगाभिभूतप्पा वित्थिण्णा वि णराहिवा। फीतिं खितिं इमं भोच्चा दोग्गतिं विवसा गता।। ॥२८-१०॥ १. अतृप्तिवीजत्वं कामानाम् । २. घ.झ.त. - पिज्जुज्जोगा।
SR No.009617
Book TitleRushibhashitani Part 2
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages132
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_anykaalin
File Size836 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy