________________
e ऋषिभाषितानि
७३
साम्राज्यान्तःपुरबलवाहनादिभिर्विस्तीर्णा अपि - विस्तृतसुखसाधनसम्पन्ना अपि नराधिपाः - भूपालाः, कामभोगेनाभिभूतः- विडम्बित आत्मा येषां ते कामभोगाभिभूतात्मानः सन्तः, कञ्चित् कालं यावदिमाम् - प्रत्यक्षं दृश्यमानाम्, स्फीतिम् सागरमेखलालङ्कृततयातीव विशालाम्, क्षितिम् - पृथिवीलक्ष्मीम्, भुक्त्वा तत्स्वामितया तदुपभोगं कृत्वा, विवशा:कामभोगोपार्जितक्लिष्टकर्मविपाकाधीनत्वेन परतन्त्राः, दुर्गतिम् नरकादिदुष्टगतिम्, गताः - उपयाताः । अत एषां सुखमपि परमार्थतो हेयमेव, आह च- किं विभुत्वेन ? किं भोगैः ? किं सौन्दर्येण ? किं श्रिया ? । किं जीवितेन जीवानां दुःखं चेत् प्रगुणं - इति ( योगसारे । । ४ - २७ ।। ) । एवं च - काममोहितचित्तेणं विहाराहारकंखिणा ।
पुरः
दुग्गमे भयसंसारे परीतं केसभागिणा । । २८ - ११ । । काममोहितचित्तेन जीवेन विहारः - स्वैररतिक्रीडादिः, आहार : - मधुराद्यभीष्टभोजनम्, विहारश्चाहारश्च विहाराहारौ, तौ काङ्क्षते- कामकामितया समभिलषति - विहाराहारकाङ्क्षी, तेन, क्लेशभागिना - दुःसहदुःखसन्दोहपात्रेण सता, दुर्गमे भयसंसारे प्राग्वत्, परिसमन्तात् इतम् गतम् भ्रान्तमिति यावत् - परीतम्। यदार्षम् - कामाणुगिद्धिप्पभवं खु दुक्खं सव्व लोयस्स सदेवयस्स - इति (उत्तराध्ययने ।। ३२ - १९।। ) । एवञ्च तद्धेतोरेवास्तु किन्तेनेतिन्यायात्स्वयमेव जीवो दुःखकर्तेत्याह
-
आर्षोपनिषद् अप्पक्कतावराहोऽयं जीवाणं भवसागरो ।
सेओ जरग्गवाणं वा अवसाणम्मि दुत्तरो ।। २८-१२ ।। जीवानामयं भवसागर आत्मकृतापराधः आत्मनैव प्राक्कृतवृजिनव्युष्टिरूप इति भावः, हेतौ फलोपचारात्। जरद्गवामिव - वृद्धबलीवर्दानामिव सेयः पङ्कः, तथाऽवसाने - पर्यन्ते दुःखेन तीर्यत इति दुस्तरः, भवति ।
अयं भावः, यथा हि ते बलीवर्दाः स्वरसत एव पङ्के निमज्जन्ति, पर्यन्ते च तत आत्मानमुद्धर्तुमशक्तास्तत्रैवावसन्नास्तीरमवाप्तुं न शक्नुवन्ति, तथा जीवा अपि स्ववशतया कर्माणि कृत्वा तद्विपाककाले विवशतया सीदन्तीति । इत्थं च -
अप्पक्कतावराहेहिं जीवा पावंति वेदणं । अप्पक्कतेहिं सल्लेहिं सल्लकारी व वेदणं । । ।।२८-१३।। जीवा आत्मनैव कृतैः विहितैः, अपराधैः दुष्टकृत्यैः, वेदनाम् दु:खम्, प्राप्नुवन्ति । यथा कश्चित् शल्यम् प्रहरणविशेषः, तं करोति निर्वर्तयतीति शल्यकारी, स प्रमत्तः सन्, आत्मकृतैरेव शल्यैर्वेदनाम् - स्वहस्तादिवेधकृतपीडाम्, प्राप्नोति । यथोक्तम् हणाइ सत्थं जह कुग्गहीयं
( उत्तराध्ययने । । २० - ४४ ।। ) । तस्मात् -
जीवो अप्पोवघाताय पडते मोहमोहितो। बंधमोग्गरमाले वा णच्वंतो बहुवारिओ । । २८ - १४॥
मालो वा ट मांलोदा । मावोदा पमा। कोदा ।
७४
-
-
१. पापफलम्। २. घ. झतमाले वा । च ढमापोदा । ण मायोदा। धमाकोदा । न
-
-
इति