________________
- ७५
Re-ऋषिभाषितानि ___ मोहमोहितो जीव आत्मोपघाताय - स्ववधाय पापेषु पतति। यथा बध्यत इति बन्धः - गुम्फः, स च प्रस्तावात् श्लथो गृह्यते, तेन सहिता मोद्गराः - कुसुमविशेषाः, तैर्यथाकथञ्चिनिर्मितो मालः - मञ्चः, तात्स्थ्यात्तद्व्यपदेशयोगात्तत्र स्थिता लोका इत्यर्थः। स बहुभिः - प्रभूतैः शिष्टजनैः, वारितः - बहुवारितोऽपि नृत्यन् - नर्तनप्रवृत्तः सन्, आत्मोपघाताय पतत्येवेति। आत्मोपघातक्रममेव स्फुटयति -
असब्भावं पवातंति दीणं भासंति वीकवं। कामग्गहाभिभूतण्या जीवितं पयहंति य।।२८-१५।।
काम एव ग्रह इव ग्रहः- कामग्रहः, भूतावेशवद्विचेष्टितादिजनकत्वसाधर्म्यात्, तेनाभिभूतः सञ्जातविकृतिः, आत्मा येषां ते- कामग्रहाभिभूतात्मानः, वचनव्यत्यासः प्राकृतत्वात् असद्भावम्- अविद्यमानवस्तु प्रवाचयन्ति - उन्मत्तताप्रकर्षण लपन्ति, यथोक्तम् - कुन्दान्यस्थीनि दशनान् मुखं श्लेष्मगृहं विधुम्। मांसग्रन्थिः कुचौ कुम्भौ हेम्नो वेत्ति ममत्ववान् - इति (अध्यात्मसारे ८-१४)। तथा दीनं विक्लवं च यथा स्यात्तथा भाषन्ते, दैन्यादिविशिष्टं वचो वा भाषन्त इत्यर्थः, यथोदितम् - मरणे वि दीणवयणं माणधरा जे नरा न जंपंति। ते वि हु कुणंति लल्लिं, बालाणं नेहगहगहिला।। सक्को वि नेव खंडइ माहप्पमडुप्फुरं जए जेसिं ते वि नरा नारीहिं कराविआ निअयदासत्तं- इति (इन्द्रियपराजयशतके ६६-६७)। तथा जीवितम्- प्राणधारणम्, चः- समुच्चये, प्रजहति - सर्वथा त्यजन्ति, मरणं च होइ दसमे १. मोगरा - इति गुर्जरे।
आर्षोपनिषद् - - इत्युक्तेः (प्रवचनसारोद्धारे - द्वार १६९)। किञ्च -
हिंसादाणं पवत्तेंति कामतो केति माणवा। वित्तं गाणं च विण्णाणं केयी ऐति हि संखयं।।
॥२८-१६॥ केचित् मानवाः कामतः - अन्तर्जाज्वल्यमानेच्छामदनदहनात् सन्तप्ताः सन्तस्तन्निर्वापनाय हिंसाया आदानम् - साधनं खरकर्मादि प्रवर्त्तयन्ति। नानुपहत्य भूतानि भोगः सम्भवतीत्यन्यमपि तथाविधहिंसाया आदानमत्र द्रष्टव्यम्। तथा केचित् कामत एव स्वकीयं वित्तम्-धनम्, एतच्च चारित्रिणोऽपेक्षया चारित्रमेवेति ध्येयम्, ज्ञानम्- सामान्यमतिप्रभवोऽवबोधः, विज्ञानम्-स एव श्रुतादिपरिकर्मितः, चः - समुच्चये, सङ्क्षयं हि नयन्ति - स्वजन्यजननप्रक्षीणसामर्थ्यतामेव प्रापयन्ति, उक्तं च - तज्ज्ञानं तच्च विज्ञानं तत्तपः स च संयमः, सर्वमेकपदे भ्रष्टं सर्वथा किमपि स्त्रियः - इति। अन्यत्रापि - न तस्य धनं धर्मः शरीरं वा यस्यास्ति स्त्रिष्वत्यासक्तिः - इति (नीतिवाक्यामृते ।।३-१२॥)।
अत्र मानवा इति व्यपदेश उपलक्षणम्, अन्यत्रापि कामविडम्बनासद्भावादिति स्पष्टयति -
सदेवोरगगंधव्वं सतिरिक्खं समाणुसं। कामपंजरसंबद्धं किस्सते विविहं जगं।।२८-१७।।
देवाः - ज्योतिष्कवैमानिकसुराः, उरगाः - नागकुमाराख्यभवनपतिविशेषाः, उपलक्षणमेतच्छेषभवनपतिनाकिनाम्, गन्धर्वाः - व्यन्तरविशेषाः, उपलक्षणमेतच्छेषव्यन्तराणाम्। एतैः सहितम्