________________
770 ऋषिभाषितानि
सदेवोरगगन्धर्वम्। तथा तिर्यञ्चैः सहितम् - सतिर्यञ्चम्, एवं मानुषैः सहितम् - समानुषम्, किमित्याह-जगत्- विश्वम्, काम एव बन्धनहेतुत्वात् पञ्जरम् - कामपञ्जरम्, तस्मिन् सुतरां बद्धम् - सम्बद्धम्, विविधं अनेकप्रकारं यथा स्यात्तथा, यथोक्तम् - कामकामी खलु अयं पुरिसे, से सोयति जूरति तिप्पति फिड्डति परितप्पति- इति (आचारागे १-२-५) । यद्वा जगद्विशेषणमिदम्। क्लिश्यते - विडम्ब्यते । तदाह- स्त्रीसमुद्रेऽत्र गम्भीरे निमग्नमखिलं जगत् - इति ( योगसारे ४ - १५ ) । अवदाम चात्र - अनन्तलोकमित निगोदजीवाः, असङ्ख्यतन्मिता एकेन्द्रियाः, विकलनिरयिप्रभृतयोऽसङ्ख्याश्च सततं तृतीयप्रकृतयस्तद्वेदवेदयितारः । मनुजविडम्बना अपि प्रत्यक्षसिद्धाः । परमशुचिदिव्यरूपैश्वर्याणामच्युतान्तसुराणामपि कदाचिदतिपशु-विण्मूत्रबीभत्समनुष्यवनितासु निधुवनविडम्बना भवन्तीति पारमर्ष उक्तम् । शक्रेन्द्रोऽप्यनेकशः शचीप्रणतिप्रवणो भवति - इति (सत्त्वोपनिषदि - १५ ) । तत्र नरतिर्यग्विडम्बना यथा-व्याभिन्नकेसरबृहच्छिरसश्च सिंहा, नागाश्च दानमदराजिकृशैः कपोलैः । मेधाविनश्च पुरुषाः समरे च शूराः, स्त्रीसन्निधौ परमकापुरुषा भवन्ति ।। कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः, पिठरककपालार्दितगलः । व्रणैः पूयक्लिन्नैः, कृमिकुलशतैरावृततनुः, शुनीमन्वेति श्वा, हतमपि च हन्त्येव मदनः - इति। सुरसङ्क्लेशो यथा - रमणीविरहेण वह्निना, बहुबाष्पानिलदीपितेन यत् । त्रिदशैर्दिवि दुःखमाप्यते, घटते तत्र कथं सुखस्थितिः - इति (अध्यात्मसारे ७-१९ ) । तस्मात्
७७
७८
आर्षोपनिषद् कामग्गहविणिमुक्का धण्णा धीरा जितिंदिया | वितरंति मेइणिं' रम्मं सुद्धप्पा सुद्धवादिणो ।।
।।२८-१८।।
ये कामग्रहेण विशेषेण निःशेषतया मुक्ता:कामग्रहविनिर्मुक्ताः, मनोविकारलेशस्याप्यभावात् । त एव धन्याः, धर्मधनलब्धत्वात्, धीराः, सानुबन्धसुखासुखहेतुविवेकधिया राजितत्वात्, जितेन्द्रियाः, परिवशीकृतप्रत्याहारत्वात् । एवं च शुद्धात्मानः, केलाकेलिकलङ्काकलङ्कितत्वात्, शुद्धवादिनः, अशुद्धवादहेतुविरहात् इत्थम्भूताश्च ते रम्याम् - तत्त्वज्ञमनोमनोज्ञाम्, मेदिनीम् - विशुद्धतरधर्मभूमिकाम्, वितरन्ति - विचरन्ति, उत्तरोत्तरविशुद्धधर्माराधका भवन्तीत्यर्थः ।
यद्वा रम्यां मेदिनीमिति रमणीयस्वर्गभूमिमित्यर्थः, तां च ब्रह्मचर्यादिफलत्वेनावाप्य तत्र विचरन्तीत्यर्थः, विवक्कतवबंभचेराणं देवाणं - इत्युक्तेः (स्थानाङ्गे ५-२- ४६४) ।
यद्वा रम्यां मेदिनीं सुन्दरसुरलोकवसुन्धरां देवकुर्वादिलक्षणां भोगभूमिं च वितरन्ति सिद्धिसम्प्राप्त्या समुल्लङ्घयन्ति । ततोऽप्यनन्तगुणरमणीयभूमिकाऽवाप्त्या भवेदेव तत्समुल्लङ्घनमिति । मुख्योऽर्थ एष एव सिद्धेरेव कामग्रहविनिर्मुक्तिमुख्यफलत्वात्, यदाहुः- एस धम्मे धुवे निच्चे सासए जिणदेसिए । सिद्धा सिज्झति चाणेणं सिज्झिस्संति तहाऽवरे - इति (उत्तराध्ययने १६
-
१. क.ट. ठ.ढ.. - मेइणि रमं । ख- मेइइणि रमं सुद्धवादिणो । ग घ च झत. मेइणि रम्मं । न.ध.प.फ. मेइणि रंमं । २. कामदेवः । ३. ब्रह्मचर्यलक्षणः ।