________________
८०
- आर्षोपनिषद् - जलमध्य एव सीदति - निमज्जतीत्यर्थः। अत्र काममूढस्य जात्यन्धसाधर्म्यम्, भोगानां च सच्छिद्रपोतसङ्काशतेत्युपनयः
Re-ऋषिभाषितानि - १९)। मेइणिरमं - इति पाठे तु विरक्ता राजानः स्वकीयां पृथ्वीलक्ष्मी (मेदिनीरमां) वितरन्ति - उत्तराधिकारिणं समर्पयन्ति, प्रव्रजन्ति चेत्यर्थः। तदेतद् ब्रह्मफलम्, इतरफलमाह
जे गिद्धे कामभोगेसु पावाइं कुरुते नरे। से संसरति संसारं चाउरतं महब्भयं ।।२८-१९।।
यो नरः कामभोगेषु गृद्धः- तदेकाध्यवसिततालक्षणाऽऽसक्त्यतिशयानुस्यूतान्तःकरणः सन् पापानि हिंसादिरूपाणि, कुरुते, स चातुरन्तं - नारकादिचतुर्विभागम्, महाभयम्, सर्वभयनिलयत्वात्, एवम्भूतं संसारम् - सन्ततसंसृत्येकलक्षणं भवम्, संसरति - बम्भ्रमीति, आह च - अविद्वान् पुद्गलद्रव्यं, योऽभिनन्दति तस्य तत्। न जातु जन्तोः सामीप्यं, चतुर्गतिषु मुञ्चति इति - (इष्टोपदेशे ४६)। तस्मात् सौख्यार्थिनां कामभोगा अनाश्रयणीया एव, अन्यथाऽपायध्रौव्यादिति निदर्शयति -
जहा 'अस्साविणिं नावं जातिअंधो दुरूहिया। इच्छते पारमागंतुं अंतरे च्चिय सीदति।।२८-२०।।
यथा कश्चिज्जात्यन्धः - जन्मत एव नयनयुगलविकलः, आसमन्तात् स्रवति जलं छिद्रसहस्रसङ्कुलत्वादित्यास्राविणी, ताम्, नावम् - पोतम्, आरुह्य पारमागन्तुमिच्छति, न चासौ सच्छिद्रपोतारूढतया पारगामी भवति, किं तर्हि ? अन्तर एव -
___ द्वितीयाङ्ग इदमेव दृष्टान्तं सोपनयमभिहितं यथा- जहा आसाविणिं नावं, जाइअंधो दुरुहिया। इच्छई पारमागंतुं अंतरा य विसीयति।। एवं तु समणा एगे मिच्छदिट्ठी अणारिया। सोय कासिणमावन्ना आगंतारो महब्भयं - इति (सूत्रकृताङ्गे १-११/ ३०-३१)। अत्रोपनयवृत्तिः- एवमेव श्रमणा एके शाक्यादयो मिथ्यादृष्टयोऽनार्या भावस्रोतः कर्माश्रवरूपं कृत्स्नं सम्पूर्णमापन्नाः सन्तस्ते महाभयं पौन:पुन्येन संसारपर्यटनया नारकादिस्वभावं दुःखम्, आगन्तारः - आगमनशीला भवन्ति, न तेषां संसारोदधेरास्राविणीं नावं व्यवस्थितानामिवोत्तरणं भवतीति भावः।
अत्र श्रमणानामपि प्रकरणाद्विषयैषिणामेव ग्रहणमित्युपलक्षणमेतत्तथाविधानामन्येषामपीति न प्रकृतविसदृशमिदं निदर्शनमुपनयश्चेति ध्येयम्। क एवमाहेत्याह- अद्दएण अरहता इसिणा बुइतं - आर्द्रकेनार्हतर्षिणोदितमिति।
यद्येवं कामभोगा हेयास्तर्हि किं कर्तव्यमित्याहकाले काले य मेहावी पंडिए य खणे खणे। कालातो कंचणस्सेव उद्धरे मलमप्पणो।।२८-२१।।
त्रिकालदर्शिनी प्रतिभा मेधा, मेधा कालत्रयात्मिकेत्युक्तेः, साऽस्त्यस्येति मेधावी, तथा पण्डा-तत्त्वानुसारिणी मतिः, पण्डा तत्त्वानुगा - इति वचनात् (अभिधानचिन्तामणौ ३१०)। सा
१. क.ढ.ण - जहा अस्सा। ख - जेहारिस्सा। ग.ध.च.छ.त.झ - जहा निस्सा। ज.ठ.थ.ध.न.फ - जहा रिस्सा। ट - जहा रिश्रा । ड - जहा हिस्सा । प - जहां रिस्सा।