________________
Re-ऋषिभाषितानि -
- ८१ सञ्जाताऽस्येति पण्डितः। स काले काले ग्लानप्रतिचरणादिप्रत्येकावसरे, क्षणे क्षणे तादृशावसरविरहेऽपि स्वाध्यायसद्ध्यानोपयुक्ततया प्रतिक्षणम्, चकारौ - समुच्चये। कालात् क्रमशो भावमलहानप्रायोग्याध्वनः, काञ्चनस्येव - सुवर्णस्येव, आत्मनो मलम् - कर्मकुवासनात्मकं भावकचवरम्, उद्धरेत् - स्वस्मात्पृथक्कुर्यात्। ___ इदमुक्तं भवति, यथा छेददाहक्रमेण सुवर्णं निर्मलीक्रियते, तथा तत्तत्कालोचितानुष्ठानासेवनाद्बुद्धिमताऽऽत्मा निर्मलीकर्तव्यः, इत्थमेव मेधादिसाफल्यादिति। किञ्च -
अंजणस्स खयं दिस्स वम्मीयस्स य संचयं। मधुस्स य समाहारं उज्जमो संजमे वरं।।२८-२२।।
अञ्जनस्य - कज्जलस्य प्रतिदिनं म्रक्ष्यमाणतया क्षयम्समाप्तिम्, दृष्ट्वा-प्रत्यक्षमुपलभ्य। इदमुक्तं भवति यथेषदिषदपि गृह्यमाणमञ्जनं कालान्तरे निःशेषीभवति, तथायुरपि प्रतिसमयं तनूभवत् समाप्ति प्रति धावति, नियतकाले चाशेषतया क्षीयते तदेतदञ्जनज्ञातेनोपलभ्य संयम उद्यमो वरतर इत्यग्रे योगः।
च - तथा वल्मीकस्य - वामलूरस्य, सञ्चयम् - कृमिभिः क्रियमाणमुपचयम्, दृष्ट्वेति वर्तते। यथा कृमिभिरणुरणुरुपनीयमानो महतो वल्मीकस्य हेतुतां प्रतिपद्यते। तथा क्षणं क्षणमपि संयमाराधनेन सफलीकृतं महते फलाय सम्पद्यत इति भावः।
स्यादेतत्, धनमपि प्रतिदिनं सञ्चीयमानमस्माकं समीहितसिद्धिविधौ प्रत्यलमित्यस्माकं तु तत्सञ्चय एवाभियोग
८२
- आर्षोपनिषद् - इत्यत्राह - मधुनश्च मक्षिकाभिरतियत्नेन स्तोकं स्तोकमुपनीय सञ्चितस्य समाहारम्- एकपद एव बर्बरादिजघन्यजनकृतापहरणं दृष्ट्वा संयम एव उद्यमः सञ्चययत्नः वरम्- श्रेष्ठतरः। अयं भावः, कदर्यस्यार्थसङ्ग्रहो राजदायादतस्कराणामन्यतमस्य निधिः - इत्युक्तेः (नीतिवाक्यामृते २-११)। मधुमक्षिकावत्तत्सञ्चितमपि सपदि ह्रियते, यावदन्तेऽन्तक एव सर्वं संहरति, न तु संयमधनमीदृशम्, तदपहारासम्भवात्, तत्फलस्य सानुबन्धभावाच्च। अतोऽत्रैवाभियोगः श्रेयान्।
ननु तथापि धनेनैवोत्तमसुखसाधनसंयोग इति प्रत्यक्षमीक्ष्यत इति किं न तत्रैव यतामह इति चेत् ? अत्राह
उच्चादीयं विकप्पं तु भावणाए विभावए। ण हेमं दंतकटुं तु चक्कवट्टी वि खादए।।२८-२३।।
एतन्ममोत्कृष्टं सुखसाधनमेतन्मध्यमं निकृष्टं चैतदितिलक्षणमुच्चादिकं विकल्पम् - आभिमानिकं सङ्कल्पमात्रम्, भावनया - अनादिकुवासनया, विभावयेत्, मूढजन्तुर्विमृशतीत्यर्थः, तत्त्वत उच्चत्वादेरेवाभावात्, वस्तुस्वरूपस्य रागादेश्च परावर्त्तनशीलत्वात्। ___ यद्वा योऽनन्तरोक्त उच्चादिको विकल्पः, तं भावनया - तत्त्वचिन्तनेन विभावयेत्, किंस्वरूपया भावनयेत्याहयच्चक्रवर्त्यपि - सार्वभौमोऽपि हैमम्- सौवर्णम्, दन्तधावनार्थं काष्ठं दन्तकाष्ठम्, न-नैव खादयेत्, दन्तधावन उपयुद्ध्यात्, प्रकृतानुचितत्वात्। चक्री-अपि प्राकृतजनवत् प्राकृतदन्तकाष्ठमेव